Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 44

63 Mantra
3/44
Devata- मरुतो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः। क॒र॒म्भेण॑ स॒जोष॑सः॥४४॥

प्र॒घा॒सिन॒ इति॑ प्रऽघा॒सिनः॑। ह॒वाम॒हे॒। म॒रुतः॑। च॒। रि॒शाद॑सः। क॒र॒म्भेण॑। स॒जोष॑स॒ इति॑ स॒ऽजोष॑सः ॥४४॥

Mantra without Swara
प्रघासिनो हवामहे मरुतश्च रिशादसः । करम्भेण सजोषसः ॥

प्रघासिन इति प्रऽघासिनः। हवामहे। मरुतः। च। रिशादसः। करम्भेण। सजोषस इति सऽजोषसः॥४४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रघासिनः) प्रघस्तुमत्तुं शीलमेषां तान् (हवामहे) आह्वायामहे (मरुतः) विदुषोऽतिथीन् (च) समुच्चये (रिशादसः) रिशान्=दोषान् शत्रूंश्चादन्ति=हिंसन्ति तान् (करम्भेण) अविद्याहिंसनेन ।।अत्र कृ हिंसायामित्यस्माद्धातोर्बाहुलकादौणदिकोंऽभच् प्रत्ययः (सजोषसः) समानप्रीतिसेविनः । अयं मन्त्रः शत० २ । ५ । २ । २१ व्याख्यातः ॥ ४४॥
Essence
मनुष्यैर्वैद्यान् शूरवीरान् यज्ञसंपादकात् मनुष्यानाहूय, सेवित्वा तेभ्यो विद्याशिक्षा नित्यं संग्राह्याः॥ ३ । ४४ ।।

भावार्थ-गृहस्थ लोग वैद्यों, शूरवीरों और यज्ञ करने वाले ऋत्विजों को बुलाकर तथा उनकी सेवा करके उनसे विद्या और शिक्षा नित्य ग्रहण करें ॥ ३ ।४४ ।।
Subject
पुनर्गृहस्थैः किं कर्त्तव्यमित्युपदिश्यते ।।
Meaning of Anvay
वयं करम्भेण अविद्याहिंसनेन सजोषसः समानप्रीतिसेविनः रिशादस: रिशान्=दोषान् शत्रूंश्चादन्ति=हिंसन्ति तान्  प्रघासिनः=अतिथीन् प्रघस्तुमतुं शीलमेषां तान् मरुतः=ऋत्विजश्च विदुषोऽतिथीन् हवामहे आह्वयामहे ।।३ ।४४ ।।

[वयं करम्भेण....रिशादसः.....मरुत ऋत्विजश्चहवामहे]
Meaning of Essence
भा० पदार्थ:--रिशादसः=वैद्याः, शूरवीराः । मरुतः=यज्ञसम्पादका मनुष्याः ।।
Special
प्रजापतिः । मरुतः=विद्वांसोऽतिथयः, ऋत्विजः। गायत्री। षड्जः ॥