Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 43

63 Mantra
3/43
Devata- वास्तुपतिर्देवता Rishi- शंयुर्बार्हस्पत्य ऋषिः Chhand- भूरिक् जगती, Swara- निषादः
Mantra with Swara
उप॑हूताऽइ॒ह गाव॒ऽउप॑हूताऽअजा॒वयः॑। अथो॒ऽअन्न॑स्य की॒लाल॒ऽउप॑हूतो गृ॒हेषु॑ नः। क्षेमा॑य वः॒ शान्त्यै॒ प्रप॑द्ये शि॒वꣳ श॒ग्मꣳ शं॒योः शं॒योः॥४३॥

उप॑हूता॒ इत्युप॑ऽहूताः। इ॒ह। गावः॑। उप॑हूता॒ इत्युप॑ऽहूताः। अ॒जा॒वयः॑। अथो॒ऽइत्यथो॑। अन्न॑स्य। की॒लालः॑। उप॑हूत॒ इत्युप॑ऽहूतः। गृ॒हेषु॑। नः॒। क्षेमा॑य। वः॒। शान्त्यै॑। प्र॒। प॒द्ये॒। शि॒वम्। श॒ग्मम्। शं॒योरिति॑ श॒म्ऽयोः॑। शं॒योरिति॑ श॒म्ऽयोः॑ ॥४३॥

Mantra without Swara
उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । क्षेमाय वः शान्त्यै प्र पद्ये शिवँ शग्मँ शम्योः शम्योः ॥

उपहूता इत्युपऽहूताः। इह। गावः। उपहूता इत्युपऽहूताः। अजावयः। अथोऽइत्यथो। अन्नस्य। कीलालः। उपहूत इत्युपऽहूतः। गृहेषु। नः। क्षेमाय। वः। शान्त्यै। प्र। पद्ये। शिवम्। शग्मम्। शंयोरिति शम्ऽयोः। शंयोरिति शम्ऽयोः॥४३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उपहूताः) सामीप्यं प्रापिताः (इह) अस्मिन्गृहाश्रमे संसारे वा (गाव:) दुग्धप्रदा धेनवः ( उपहूताः) सामीप्यं प्रापिताः (अजावय:) अजाश्चायवश्च ते (अथो) आनन्तर्ये (अन्नस्य) प्राणधारणस्य निरन्तरसुखस्य च हेतुः । कृवृ० ॥ उ० ३ ।१० ॥ इत्यनधातोर्नः प्रत्ययः । धापृवस्यज्य० ॥ उ० ३ । ६ ॥ इत्यतधातोर्नः प्रत्ययः (कीलालः) उत्तमान्नादिपदार्थसमूहः । कीलालं इत्यन्ननामसु पठितम् ॥ निघं० २ ॥ ७ ॥ (उपहूतः) सम्यक् प्रापितः (गृहेषु) निवसनीयेषु प्रासादेषु (नः) अस्माकम् (क्षेमाय) रक्षणाय (व:) युष्माकम् (शान्त्यै) सुखाय ( प्रपद्ये) प्राप्नोमि (शिवम्) कल्याणम् (शग्मम् ) सुखम् (शंयो:) कल्याणवतः साधनात्कर्मणः सुखवतो वा (शंयोः) सुखात् । अत्रोभयत्र । कंशंभ्यां ब्रभयुस्तितुतयसः ॥ अ॰ ५ । २ । १३८ ॥इति शर्मा युस्प्रत्ययः। शिवं शग्मं चेति सुखनमासु पठितम् ॥ निघं० ३ । ६ ॥ ४३ ।।
Essence
गृहस्थैरीश्वरोपासनाज्ञापालनाभ्यां गोहस्त्यश्वादीन् पशून्, भक्ष्यभोज्यलेह्यचूष्यान् पदार्थांश्चोपसंचित्य स्वेषामन्येषां च रक्षणं कृत्वा विज्ञानधर्मपुरुषार्थैरैहिकपारमार्थिको सुखे संसेधनीये, नैव केनचिदालस्ये स्थातव्यम् ।

[एवं कुर्वन्नहं गृहस्थ: [शंयोः] शंयोःशिवंशग्मंच प्रपद्ये]

 किन्तु--ये मनुष्याः पुरुषार्थवन्तो भूत्वा धर्मेण चक्रवर्त्तिराज्यादीनुपार्ज्य संरक्ष्योन्नीय सुखानि प्राप्नुवन्ति ते श्रेष्ठा गण्यन्ते, नेतरे ।।३ ।४३ ॥
Subject
पुन: स कीदृश: संपादनीय इत्युपदिश्यते ।।
Meaning of Anvay
इह=अस्मिन् संसारे अस्मिन्गृहाश्रमे संसारे वः=युष्माकं शान्त्यै सुखाय नः=अस्माकं क्षेमाय रक्षणाय गृहेषु निवसनीयेषु प्रासादेषु गावः दुग्धप्रदा धेनवः उपहूताः सामीप्यं प्रापिता: अजावयः अजाश्चावयश्च ते उपहूताः सामीप्य प्रापिताः, अथो अनन्तरम् अन्नस्य प्राणधारणस्य निरन्तरसुखस्य च हेतुः कीलालः उत्तमान्नादिपदार्थसमूहः उपहूतः सम्यक् प्रापितः अस्तु ।

एवं कुर्वन्नहं गृहस्थ: [शंयोः] कल्याणवतः साधनात्कर्मणः सुखवतो वा शंयोः सुखात् शिवं कल्याणं शग्मं सुखंच प्रपद्ये प्राप्नोमि ॥ ३ ॥४३॥

[इह=अस्मिन् संसारे वः=युष्माकं शान्त्यैनः=अस्माकं क्षेमायगृहेषुगावउपहूता, अजावयउपहूता, अथोऽन्नायकीलालःउपहूतोऽस्तु]
Meaning of Essence
भा० पदार्थ:--गावः=गोहस्त्यश्वादयः पशवः। कीलालः=भक्ष्यभोज्यलेह्यचूष्याः पदार्थाः। क्षेमाय=स्वेषामन्येषां च रक्षणाय । शान्त्यै=विज्ञानधर्मपुरुषार्थैरैहिकपारमार्थिकसुखसंसाधनाय। शिवम्=पारमार्थिकं सुखम् । शग्मम्=चक्रवर्त्तिराज्यादिकमैहिकं सुखम् ॥
Special
शंयुर्बार्हस्पत्य ऋषिः । वास्तुपति=गृहाश्रमी ॥ भुरिग्जगति । निषादः ॥