Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 42

63 Mantra
3/42
Devata- वास्तुपतिरग्निर्देवता Rishi- शंयुर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
येषा॑म॒द्ध्येति॑ प्र॒वस॒न् येषु॑ सौमन॒सो ब॒हुः। गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः॥४२॥गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः॥४२॥

येषा॑म्। अ॒ध्येतीत्य॑धि॒ऽएति॑। प्र॒वस॒न्निति॑ प्र॒ऽवस॑न्। येषु॑। सौ॒म॒न॒सः। ब॒हुः। गृ॒हान्। उप॑। ह्व॒या॒म॒हे॒। ते। नः॒। जा॒न॒न्तु॒। जा॒न॒तः ॥४२॥

Mantra without Swara
येषामध्येति प्रवसन्येषु सौमनसो बहुः । गृहानुप ह्वयामहे ते नो जानन्तु जानतः ॥

येषाम्। अध्येतीत्यधिऽएति। प्रवसन्निति प्रऽवसन्। येषु। सौमनसः। बहुः। गृहान्। उप। ह्वयामहे। ते। नः। जानन्तु। जानतः॥४२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(येषाम्) गृहस्थानाम् । अत्र अधीगर्थदयेशां कर्मणि ॥ अ॰ २ ।३ ।५२ ।। इति कर्मणि षष्ठी (अध्येति) स्मरति (प्रवसन्) प्रवासं कुर्वन् (येषु) गृहस्थेषु ( सौमनसः) शोभनं मनः सुमनस्तस्यायमानन्दः सुहृद्भावः । अत्र तस्येदमित्यण (बहुः) अधिकः (गृहान्) गृहस्थान् (उप) सामीप्ये (ह्वयामहे ) शब्दयामहे (ते) गृहस्थाः (नः) अस्मान्प्रवसतोऽतिथीन् (जानन्तु ) विदन्तु (जानतः) धार्मिकान् विदुषः ॥ ४२ ॥
Essence
गृहस्थैः सर्वैर्धार्मिकैर्विद्वद्भिरतिथिभिः सह, गृहस्थैः सहातिथिभिश्चात्यन्तः सुहृद्भावो रक्षणीयो; नैव दुष्टैः सह ।

[ये सुहृदो गृहस्थास्ते जानतो नः=अस्मानतिथीन् जानन्तु]

तेषां संगे परस्परं संलापं कृत्वा विद्योन्नतिः कार्या। ये परोपकारिणो विद्वांसोऽतिथयः सन्ति तेषां गृहस्थैर्नित्यं सेवा कार्या ॥ ३ ॥ ४२ ॥
Subject
पुनस्ते गृहाश्रमिणः कीदृशाः सन्तीत्युपदिश्यते ।।
Meaning of Anvay
प्रवसन् प्रवासं कुर्वन् अतिथिः येषां गृहस्थानाम् अध्येति स्मरति, येषु गृहस्थेषु बहुः अधिकः सौमनसः शोभनं मनः सुमनस्तस्यायमानन्दः सुहृद्भावः अस्ति, तान् [गृहान्]=गृहस्थान् वयमतिथय उपह्वयामहे। समीपं शब्दयामहे ।

ये सुहृदो गृहस्थास्ते जानतः धार्मिकान् विदुषः नः=अस्मानतिथीन् (अस्मान् प्रवसतोऽतिथीन्) जानन्तु विदन्तु ॥ ३।४२ ।।

[ प्रवसन्=अतिथिर्येषामध्येति, येषु बहुः सौमनसोऽस्ति, तान् [गृहान्]=गृहस्थान् वयमतिथय उपह्वयामहे ]
Meaning of Essence
भा० पदार्थ-- बहुः=अत्यन्तः ।
Special
शंयुः । वास्तुपतिः=गृहाश्रमी ॥ अनुष्टुप् ।गान्धारः ।।