Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 41

63 Mantra
3/41
Devata- वास्तुरग्निः Rishi- आसुरिर्ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॒ बिभ्र॑त॒ऽएम॑सि। ऊर्जं॒ बिभ्र॑द्वः सु॒मनाः॑ सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः॥४१॥

गृहाः॑। मा। बि॒भी॒त॒। मा। वे॒प॒ध्व॒म्। ऊर्ज॑म्। बिभ्र॑तः। आ। इ॒म॒सि॒। ऊर्ज॑म्। बिभ्र॑त्। वः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। सु॒मे॒धा इति॑ सुऽमे॒धाः। गृ॒हान्। ए॒मि॒। मन॑सा। मोद॑मानः ॥४१॥

Mantra without Swara
गृहा मा बिभीत मा वेपध्वमूर्जम्बिभ्रत एमसि । ऊर्जम्बिभ्रद्वः सुमनाः सुमेधा गृहाऐमि मनसा मोदमानः ॥

गृहाः। मा। बिभीत। मा। वेपध्वम्। ऊर्जम्। बिभ्रतः। आ। इमसि। ऊर्जम्। बिभ्रत्। वः। सुमना इति सुऽमनाः। सुमेधा इति सुऽमेधाः। गृहान्। एमि। मनसा। मोदमानाः॥४१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(गृहाः) गृह्णन्ति ब्रह्मचर्याश्रमानन्तरं गृहाश्रमं ये मनुष्यास्तत्संबुद्धौ (मा) निषेधार्थे (बिभीत) भयं कुरुत (मा) प्रतिषेधे (वेपध्वम्) कम्पध्वम् (ऊर्जम्) पराक्रमम् (बिभ्रतः) धारयन्तः (आ) समन्तात् (इमसि) प्राप्नुमः । अत्रेदन्तो मसीतीदादेशः (ऊर्जम्) अनेकविधं बलम् (बिभ्रत्) धारयन् (व:) युष्मान् (सुमनाः) शोभनं मनो= विज्ञानं यस्य सः (सुमेधाः) सुष्ठु मेधा=धारणावती सङ्गमिका धीर्यस्य स: (गृहान् ) गृहाश्रमस्थान् विदुषः (आ) समन्तात् (एमि) प्राप्नुयाम् । अत्र लिङर्थे लट् (मनसा) विज्ञानेन (मोदमानः) हर्षोत्साहयुक्तः। एतदादिमन्त्रत्रयम् शत० २।४।१ । १४ व्याख्यातम् ।। ४१ ।।
Essence
मनुष्यैः पूर्णब्रह्मचर्याश्रमं संसेव्य युवावस्थायां स्वयंवरविधानेन स्वतुल्यस्वभावं विद्यारूपबलवतीं सुपरीक्षितां स्त्रीमुद्वाह्य शरीरात्मबलं संपाद्य सन्तानोत्पत्तिं विधाय सर्वैः साधनैः सद्व्यवहारेषु स्थातव्यम् ।

[तदनुष्ठानान्मा बिभीत, मा वेपध्वं च ]


नैव केनापि गृहाश्रमानुष्ठानात् कदाचिद् भेतव्यं कम्पनीयं च । कुतः? सर्वेषां सद्व्यवहाराणामाश्रमाणां च गृहाश्रमो मूलमस्त्यत एष सम्यगनुष्ठातव्यः । नैतेन विना मनुष्यवृद्धोराज्य सिद्धश्च जायते ॥ ३ । ४१ ।।
Subject
अथ गृहाश्रमानुष्ठानमुपदिश्यते ।।
Meaning of Anvay
हे ब्रह्मचर्येण कृतविद्या गृहाश्रमिणो मनुष्या !ऊर्ज्जं पराक्रमं बिभ्रतः धारयन्तः गृहाः! गृह्णन्ति ब्रह्मचर्याश्रमानन्तरं गृहाश्रमं ये मनुष्यास्तत् सम्बुद्धौ ! यूयं गृहाश्रमं प्राप्नुत ! तदनुष्ठानान्मा बिभीत भयं मा कुरुत, मा वेपध्वं मा कम्पध्वम् ।

ऊर्जम् पराक्रमं बिभ्रतः धारयन्तः वयं [वः]=युष्मान् गृहान् गृहाश्रमस्थान् विदुषः एमसि=समन्तात्प्राप्नुमः ।

वः=युष्माकं मध्ये स्थित्वैवं गृहाश्रमे वर्त्तमानःसुमना: शोभनं मनोविज्ञानं यस्य सः सुमेधाः सुष्ठु मेधा धारणवती सङ्गमिका धीर्यस्य सः मनसा विज्ञानेन मोदमानः हर्षोत्साहयुक्तः ऊर्जम् अनेकविधं बलम् बिभ्रत् धारयन् सन्नहं सुखानि=आ-एमि=नित्यं प्राप्नुयाम्। समन्तात् प्राप्नुयाम् ॥ ३ ।४१ ।।

[हे ब्रह्मचर्येण कृतविद्या गृहाश्रमिणो मनुष्या ! ऊर्ज्जं बिभ्रतो गृहाः ! यूयं गृहाश्रमं प्राप्नुत]
Special
आसुरि: । वास्तुरग्निः=गृहाश्रम ।आर्षी पंक्तिः । पञ्चमः ।।