Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 40

63 Mantra
3/40
Devata- अग्निर्देवता Rishi- आसुरिर्ऋषिः Chhand- निचृत् अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अ॒यम॒ग्निः पु॒री॒ष्यो रयि॒मान् पु॑ष्टि॒वर्ध॑नः। अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व॥४०॥

अ॒यम्। अ॒ग्निः। पु॒री॒ष्यः᳖। र॒यि॒मानिति॑ रयि॒ऽमान्। पु॒ष्टि॒वर्ध॑न॒ इति॑ पुष्टि॒ऽवर्ध॑नः। अ॒ग्ने। पु॒री॒ष्य॒। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒ ॥४०॥

Mantra without Swara
अयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभि द्युम्नमभि सह आ यच्छस्व ॥

अयम्। अग्निः। पुरीष्यः। रयिमानिति रयिऽमान्। पुष्टिवर्धन इति पुष्टिऽवर्धनः। अग्ने। पुरीष्य। अभि। द्युम्नम्। अभि। सहः। आ। यच्छस्व॥४०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) वक्ष्यमाणलक्षण: (अग्निः) पूर्वोक्तो भौतिकः (पुरीष्यः) ये पृणन्ति यानि कर्माणि तानि पुरीषाणि तेषु साधु: (रयिमान्) प्रशस्ता रययो=धनानि विद्यन्ते यस्मिन् सः । अत्र प्रशंसार्थे मतुप् । रयिरिति धननामसु पठितम् ॥ निघं० २।१० ॥ (पुष्टिवर्द्धनः) वर्द्धयतीति वर्द्धनः, पुष्टेर्वर्द्धनः पुष्टिवर्द्धनः (अग्ने) सर्वोत्तमपदार्थप्रापकेश्वर ! (पुरीष्य) पृणन्ति=पूरयन्ति सुखानि यैर्गुणैस्ते पुरीषास्तेषु साधुस्तत्सम्बुद्धौ (अभि) अभितः (द्युम्नम्) विज्ञानसाधकम् (अभि) आभिमुख्ये (सः) शरीरात्मबलम् (आ) समन्तात् क्रियायोगे (यच्छस्व) विस्तारय । अस्य सिद्धिः पूर्ववत् ।। ४० ।।
Essence
मनुष्यैः परमेश्वरानुग्रहस्वपुरुषार्थाभ्यामग्निविद्यां प्राप्यानेकविधं धनं बलं च सर्वतो विस्तारणीयमिति ॥ ३ । ४० ।।
Subject
पुनर्भौतिकोग्निः कीदृश इत्युपदिश्यते ।।
Meaning of Anvay
हे पुरीष्य! पृणन्ति=पूरयन्ति सुखानि यैर्गुणैस्ते पुरीषास्तेषु साधुस्तत्सम्बुद्धौ अग्ने=विद्वन्! सर्वोत्तमपदार्थप्रापकेश्वर ! त्वं योऽयं वक्ष्यमाण लक्षणः पुरीष्यः ये पृणन्ति यानि कर्माणि तानि पुरीषाणि, तेषु साधुः रयिमान् प्रशस्ता रययो=धनानि विद्यन्ते यस्मिन् सः पुष्टिवर्द्धनः वर्द्धयतीति वर्द्धनः, पुष्टेर्वर्द्धनः पुष्टिवर्द्धनः अग्निः पूर्वोक्तो भौतिकः अस्ति, तस्मादभिद्युनम् अभितो विज्ञानसाधकं अभिसहः अभिमुख्येन शरीरात्मबलं वा अभ्यायच्छस्व=विस्तारय (अभितः समन्ताद् विस्तारय) ।। ३ । ४० ।।

[हे......अग्ने=विद्वंस्त्त्वं योऽयं......अग्निरस्ति, तस्मादभिद्युम्नमभिसहवायच्छस्व]
Special
आसुरि: । अग्निः=भौतिकः ।।निचृद् अनुष्टुप् । गान्धारः ॥