Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 4

63 Mantra
3/4
Devata- अग्निर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत। जु॒षस्व॑ स॒मिधो॒ मम॑॥४॥

उप॑। त्वा॒। अ॒ग्ने॒। ह॒विष्म॑तीः। घृ॒ताचीः॑। य॒न्तु॒। ह॒र्य्य॒त॒। जु॒षस्व॑। स॒मिध॒ऽइति॑ स॒म्ऽइधः॑। मम॑ ॥४॥

Mantra without Swara
उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम ॥

उप। त्वा। अग्ने। हविष्मतीः। घृताचीः। यन्तु। हर्य्यत। जुषस्व। समिधऽइति सम्ऽइधः। मम॥४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उप) सामीप्ये ( त्वा) तम् (अग्ने ) अग्रिम् (हविष्मतीः) प्रशस्तानि हवींषि विद्यन्ते यासु ताः । अत्र प्रशंसार्थे मतुप् (घृताचीः) या घृतमाज्यादिक जलं वाऽञ्चन्ति=प्रापयन्ति ताः (यन्तु ) प्राप्नुवन्तु (हर्यत) प्रापकः कमनीयो वा (जुषस्व) जुषते । अत्र व्यत्ययो लडर्थे लोट् च ( समिधः) काष्ठादिसामग्री: ( मम) कर्मानुष्ठातुः ॥ ४ ॥
Essence
मनुष्यैर्यदाऽस्मिन्नग्नौ समिध आहुतयः प्रक्षित्यन्ते स एताः परमसूक्ष्माः कृत्वा, वायुना सह देशान्तरं प्रापयित्वा, दुर्गन्धादिद्दोषाणां निवारणेन सर्वान् सुखयतीति वेदितव्यम् ॥ ३ ॥ ४ ॥
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
- हे मनुष्याः ! यो हर्यत +अग्ने= प्रापकः कमनीयोऽग्निर्मम कर्मानुष्ठातुः समिधः काष्ठादिसामग्री: जुषस्व--जुषते=सेवते, यथा [त्वा]=तम् [अग्ने] अग्निम् एताः समिध [उप-] यन्तु=प्राप्नुवन्तु समीपं प्राप्नुवन्तु तथाऽस्मिन् यूयं हविष्मतीः प्रशस्तानि हवींषि विद्यन्ते यासु ताः घृताचीः या घृतभाज्यादिकं जलं वाऽञ्चन्ति प्रापयन्ति ताः समिधः प्रतिदिनं संचिनुत ।। ३ । ४ ।।

[यथा [त्वा]=तम् [अग्ने] अग्रिम एताः समिधः [उप] यन्तु=प्राप्नुवन्तु तथाऽस्मिन् यूयं हविष्मतीः....समिधः....संचिनुत, हर्यताग्ने=प्रापक:......अग्निः]
Meaning of Essence
भा० पदार्थः--हर्यत=वायुना सह देशान्तरं प्रापकः ।
Special
प्रजापतिः । अग्निः=भौतिकोऽग्निः । गायत्री ।षड्जः ॥