Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 39

63 Mantra
3/39
Devata- अग्निर्देवता Rishi- आसुरिर्ऋषिः Chhand- भूरिक् बृहती, Swara- मध्यमः
Mantra with Swara
अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जाया॑ वसु॒वित्त॑मः। अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व॥३९॥

अ॒यम्। अ॒ग्निः। गृ॒हप॑ति॒रिति॑ गृ॒हऽप॑तिः। गार्ह॑पत्य॒ इति॒ गार्ह॑ऽपत्यः॑। प्र॒जाया॒ इति॑ प्र॒जायाः॑। व॒सु॒वित्त॑म॒ इति॑ वसु॒वित्ऽत॑मः। अग्ने॑। गृ॒ह॒प॒त॒ इति॑ गृहऽपते। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒ ॥३९॥

Mantra without Swara
अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपते भि द्युम्नमभि सह आ यच्छस्व ॥

अयम्। अग्निः। गृहपतिरिति गृहऽपतिः। गार्हपत्य इति गार्हऽपत्यः। प्रजाया इति प्रजायाः। वसुवित्तम इति वसुवित्ऽतमः। अग्ने। गृहपत इति गृहऽपते। अभि। द्युम्नम्। अभि। सहः। आ। यच्छस्व॥३९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) प्रत्यक्षो वक्ष्यमाणः (अग्नि) ईश्वरो विद्युत्सूर्यो ज्वालामयो भौतिको वा (गृहपतिः) गृहाणां= स्थानविशेषाणां पतिः=पालनहेतुः (गार्हपत्यः) गृहपतिना संयुक्तः । अत्र गृहपतिना संयुक्ते ञ्यः ॥ अ॰ ४ ।४ ।९० ॥ अग्ने ञ्यः प्रत्ययः । इदं पदं महोधरादिभिर्व्याकरणज्ञानविरहत्वात् गृहस्य पति: पालक इत्यशुद्धं व्याख्यातम् (प्रजायाः) विद्यमानायाः (वसुवित्तमः) यो वसूनि=द्रव्याणि वेदयति=प्रापयति सोऽतिशयितः (अग्ने) अयमग्निः (गृहपते) गृहाभिरक्षकेश्वर, गृहाणां पालयिता वा (अभि) अभितः (द्युम्नम्) सुखप्रकाशयुक्तं धनम् । द्युम्नमिति धननामसु पठितम् ॥ निघं० २॥ १० ॥ (अभि) अभिमुख्ये (सहः) उदकं बलं वा । सह इत्युदकनामसु पठितम् ॥ निघं० १ । १२ ।बलनामसु च ॥ निघं० २ ॥ ९॥ (आ) समन्तात् क्रियायोगे (यच्छस्व) सर्वतो देहि प्रायच्छति विस्तारयति वा। अत्र पक्षे व्यत्ययः सिद्धिश्च पूर्ववत्॥ अयं मन्त्रः शत० २ ।४ ।१ ।९-११ व्याख्यातः ॥ ३९ ॥
Essence
अत्र श्लेषालङ्कारः ॥ गृहस्थैर्यदेश्वरमुस्यैतस्याज्ञायां वार्तित्वायमग्निः कार्यसिद्धये संयोज्यते तदानेकविधे धनबले अत्यन्तं विस्तारयति ।

[प्रजाया वसुवित्तमः....अयमग्निरस्ति]

 कुत:? प्रजाया मध्येऽस्याग्नेः पदार्थप्राप्तये साधकतमत्वादिति ।। ३ । ३९ ।।
Subject
अथेश्वरभौतिकावग्नी उपदिश्येते ।।
Meaning of Anvay
हे गृहपते ! गृहाभिरक्षकेश्वर ! अग्ने=परमात्मन् ! योऽयं प्रत्यक्षो वक्ष्यमाणो भवान् गृहपतिः गृहाणाम्=स्थानविशेषाणां पतिः=पालनहेपातुः गार्हपत्यः गृहपतिना संयुक्तः प्रजायाः विद्यमानायाः वसुवित्तमः यो वसूनि=द्रव्याणि वेदयति=प्रापयति सोऽतिशयितः अग्निः ईश्वरः अस्ति, तस्मात्त्वमस्मदर्थं द्युम्नं सुखप्रकाशयुक्तं धनम् अभ्यायच्छस्व अभितः=सर्वतः समन्तात् देहि, सहः बलं चाभ्यायच्छस्व अभिमुख्येन सर्वतो देहि इत्येकः।।

यस्माद् गृहपतिः गृहाणां=स्थानविशेषाणां पतिः=पालनहेतु प्रजायाः विद्यमानायाः वसुवित्तमः यो वसूनि= द्रव्याणि वेदयति=प्रापयति सोऽतिशयितः गार्हपत्यः गृहपतिना संयुक्तः अयमग्निः विद्युत् सूर्यो ज्वालामयो भौतिकः अस्ति, तस्मात्स [गृहपते] गृहाणां पालयिता [अग्ने] अयमग्निः अभिद्युम्नम् अभितः सुखप्रकाशयुक्तं धनं सह उदकं च[अभ्यायच्छस्व]=अभ्यायच्छति=अभिमुख्येन समन्तात् विस्तारयतीति द्वितीयः ॥ ३ । ३९ ॥

[ हे......अग्ने=परमात्मन् ! योऽयं भवान्......अग्निरस्ति, तस्मात्त्वमस्मदर्थं द्युम्नं......सहश्चाभ्यायच्छस्व, अयमयग्निः......अभिद्युम्नं सहश्च [अभ्यायच्छस्व]=अभ्यायच्छति ]
Meaning of Essence
भा॰ पदार्थ:-- वसुवित्तमः=पदार्थप्राप्तये साधकतमः ।।
Special
आसुरिः । अग्निः=ईश्वरो भौतिकश्च ॥ भुरिग्बृहती ।मध्यमः ।।