Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 38

63 Mantra
3/38
Devata- अग्निर्देवता Rishi- आसुरिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम्। अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ऽआय॑च्छस्व॥३८॥

आ। अ॒ग॒न्म॒। वि॒श्ववे॑दस॒मिति॑ वि॒श्वऽवे॑दसम्। अ॒स्मभ्य॑म्। व॒सु॒वित्त॑म॒मिति॑ वसु॒वित्ऽत॑मम्। अग्ने॑। स॒म्रा॒डिति॑ सम्ऽराट्। अ॒भि। द्यु॒म्नम्। अ॒भि। सहः॑। आ। य॒च्छ॒स्व॒ ॥३८॥

Mantra without Swara
आगन्म विश्ववेदसमस्मभ्यँवसुवित्तमम् । अग्ने सम्राडभि द्युम्नमभि सह आ यच्छस्व ॥

आ। अगन्म। विश्ववेदसमिति विश्वऽवेदसम्। अस्मभ्यम्। वसुवित्तममिति वसुवित्ऽतमम्। अग्ने। सम्राडिति सम्ऽराट्। अभि। द्युम्नम्। अभि। सहः। आ। यच्छस्व॥३८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (आ) समन्तात् (अगन्म) प्राप्नुयाम। अत्र लिङर्थे लुङ् मन्त्रे घसह्वर० इति च्लेर्लुक् । म्वोश्च ।।अ॰ ८।२ । ६५ ।। इति मकारस्य नकारः (विश्ववेदसम्) यो विश्वं वेत्ति स विश्ववेदाः परमेश्वरः । विश्वम्=सर्वं सुखं वेदयति=प्रापयति स भौतिकोऽग्निर्वा । अत्र विदिभुजिभ्यां विश्वे॥उ० ४ ।२३८ ॥अनेनासि: प्रत्ययः (अस्मभ्यम्) उपासकेभ्यो यज्ञानुष्ठातृभ्यो वा (वसुवित्तमम्) वसून्पृथिव्यादिलोकान्वेत्ति सोतिशयितस्यम् । पृथिव्यादिलोकान् वेदयति= सूर्यरूपेणाग्निरेतान्प्रकाश्य प्रापयति स वसुवित् अतिशयेन वसुविदिति वसुवित्तमो वा तम् (अग्ने) विज्ञानस्वरूपेश्वर। विज्ञापको भौतिको वा (सम्राट् ) यः सम्यग्राजते=प्रकाशते सः (अभि) आभिमुख्ये (द्युम्नम्) प्रकाशकारकमुत्तमं यशः । द्युम्नं द्योततेर्यशो वान्नं वा ।। निघं० ५ । ५ ॥ (अभि) आभिमुख्ये (सहः) उत्तमं बलम्। सह इति बलनामसु पठितम् ॥ निघं० २ ।९ ॥ (आ) समन्तात् (यच्छस्व) विस्तारय विस्तारयति वा । अत्र पक्षे लडर्थे लोट् । आङो यमहनः ॥ अ॰ १ ।३ ।२८ ॥ अनेनात्मनेपदम् । आङ्पूर्वको यमधातुर्विस्तारार्थे॥ अयं मंत्रः शत० २ । ४ । १ । ७-८ व्याख्यातः ॥ ३८॥
Essence
अत्र श्लेषालङ्कारः। मनुष्यैः परमेश्वरभौतिकाग्न्योर्गुणविज्ञानेन तदनुसाराअनुष्ठानेन सर्वतः कीर्तिबले नित्यं विस्तारणीये इति ।। ३ ।३८ ॥
Subject
अथाग्निशब्देनेश्वरभौतिकावर्थावुपदिश्येते ।।
Meaning of Anvay
हे सम्राट् यः सम्यग्राजते=प्रकाशते सः अग्ने=जगदीश्वर ! विज्ञानस्वरूपेश्वर ! त्वमस्यभ्यम् उपासकेभ्यः द्युम्नं प्रकाशकारकमुत्तमं यशः सहः उत्तमं बलं चाभ्यायच्छस्व=विस्तारय । अभिमुखं समन्ताद् विस्तारये ।

एतदर्थं वयं वसुवित्तमं वसून्=पृथिव्यादिलोकान्वेत्ति सोऽतिशयितस्तं विश्ववेदसं यो विश्वं वेत्ति स विश्ववेदाः परमेश्वरः त्वामभ्यागन्म=प्राप्नुयाम् अभिमुखं समन्तात्प्राप्नुयाम । इत्येकः॥

यः सम्राट् यः सम्यग्राजते=प्रकाशते सः अग्ने=अयमग्निः विज्ञापको भौतिकः अस्मभ्यं यज्ञानुष्ठातृभ्यः द्युम्नं प्रकाशकारकमुत्तमं यशः सहः उत्तमं बलं [अभ्यायच्छस्व]=अभ्यायच्छति=सर्वतो विस्तारयति तं वसुवित्तमं पृथिव्यादिलोकान् वेदयति सूर्यरूपेरणाग्निरेतान् प्रकाश्य प्रापयति स वसुवित्, अतिशयेन वसुविदिति वसुवित्तमो वा तं विश्ववेदसम्=अग्निं विश्वं सर्व सुखं वेदयति=प्रापयति स भौतिकोऽग्निः (तम्) वयमभ्यागन्म=प्राप्नुयामेति ॥ द्वितीयः ।।३।३८॥ 

[हे ......अग्ने=जगदीश्वर ! त्वमस्मभ्यं द्युम्नं सहश्चाभ्यायच्छस्व=विस्तारय । यः....अग्ने=अयमग्निरस्मभ्यं द्युम्नं सह [अभ्यायच्छस्व]=अभ्यायच्छति=सर्वतो विस्तारयति ]
Meaning of Essence
भा॰ पदार्थः--द्युम्नम्=कीर्तिः ।।
Special
आसुरि: । अग्निः=ईश्वर और भौतिक अग्नि। अनुष्टुप् । गान्धारः ।।