Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 37

63 Mantra
3/37
Devata- प्रजापतिर्ऋषिः Rishi- वामदेव ऋषिः Chhand- ब्राह्मी उष्णिक्, Swara- ऋषभः
Mantra with Swara
भूर्भुवः॒ स्वः सुप्र॒जाः प्र॒जाभिः॑ स्या सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑। नर्य॑ प्र॒जां मे॑ पाहि॒ शꣳस्य॑ प॒शून् मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि॥३७॥

भूः। भुवः॑। स्व॒रिति॒ स्वः᳖। सु॒प्र॒जा इति॑ सुऽप्र॒जाः। प्र॒जाभि॒रिति॑ प्र॒ऽजाभिः॑। स्या॒म्। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। वी॒रैः। सु॒पोष॒ इति॑ सु॒पोषः॑। पोषैः॑। नर्य॑। प्र॒जामिति॑ प्र॒ऽजाम्। मे॒। पा॒हि॒। शꣳस्य॑। प॒शून्। मे॒। पा॒हि॒। अथ॑र्य। पि॒तुम्। मे॒ पा॒हि॒ ॥३७॥

Mantra without Swara
भूर्भुवः स्वः सुप्रजाः प्रजाभि स्याँ सुवीरो वीरैः सुपोषः पोषैः । नर्य प्रजाम्मे पाहि शँस्य पशून्मे पाह्यथर्य पितुम्मे पाहि ॥

भूः। भुवः। स्वरिति स्वः। सुप्रजा इति सुऽप्रजाः। प्रजाभिरिति प्रऽजाभिः। स्याम्। सुवीर इति सुऽवीरः। वीरैः। सुपोष इति सुपोषः। पोषैः। नर्य। प्रजामिति प्रऽजाम्। मे। पाहि। शꣳस्य। पशून्। मे। पाहि। अथर्य। पितुम्। मे पाहि॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (भूः) प्रियस्वरूप: प्राण: (भुवः) बलनिमित्त उदानः (स्वः) सर्वचेष्टानिमित्तो व्यानश्च तैः सह (सुप्रजाः) शोभना सुशिक्षा सद्विद्यासहिता प्रजा यस्य सः (प्रजाभिः) अनुकूलाभिः स्त्र्यौरसविद्यासन्तानमित्रभृत्यराज्यपश्वादिभिः (स्याम्) भवेयम् (सुवीर:) शोभना वीराः=शरीरात्मबलसहिता यस्य सः (वीरैः) शौर्यधैर्यविद्याशत्रुनिवारणप्रजापालनकुशलैः (सुपोषः) श्रेष्ठाः पोषा:=पुष्टयो यस्य सः (पोषैः) पुष्टिकारकैराप्तविद्याजनितैर्बोधयुक्तैर्व्यवहारैः (नर्य) नीतियुक्तेषु नृषु साधुस्तत्सम्बद्धौ परमेश्वर ! (प्रजाम्) सन्तानादिकाम् (मे) मम (पाहि) सततं रक्ष (शंस्य) शंसितुं=सर्वथा स्तोतुमर्ह (पशून्) गोऽश्वहस्त्यादीन् (मे) मम (पाहि) रक्षय (अथर्य) संशयरहित । थर्वतिश्चरतिकर्म्मा ॥ निरु० ११ । १८॥ थर्वति=संशेते यः स थर्य्यो न थर्य्योऽथर्यस्तत्सम्बुद्धौ । अत्र वर्णव्यत्ययेन वकारस्थाने यकार: (पितुम्) अन्नम्। पितुरित्यन्ननामसु पठितम् ॥ निघं० २।७ ॥ (मे) मम (पाहि) रक्ष । अत्रोभयत्रान्तर्त्रतोण्यर्थः । अयं मंत्र: शत० २ । ४ । १।१--६ व्याख्यातः ॥ ३७ ।।
Essence
मनुष्यैरीश्वरोपासनाज्ञापालनमाश्रित्य सुनियमैः पुरुषार्थेन श्रेष्ठप्रजावीरपुष्ट्यादिकारणै: प्रजापालनं कृत्वा नित्यं सुखं सम्पादनीयम् ।। ३ । ३७ ।।
Subject
पुनः स जगदीश्वरः किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
Meaning of Anvay
हे नर्य्य ! नीतियुक्तेषु नृषु साधुस्तत्सम्बुद्धौ परमेश्वर ! त्वं कृपया मे=मम प्रजां सन्तानादिकां पाहि सततं रक्ष ।

मे=मम पशून् गोऽश्वहस्त्यादीन् पाहि रक्षय ।

हे अथर्य ! संशय रहित, थर्वति=संशेते यः स थर्य्यो न थर्य्योऽथर्यस्तत्सम्बुद्धौ ! मे=मम पितुम् अन्नं पाहि रक्ष ।

हे शंस्य=जगदीश्वर! शंसितुं सर्वथा स्तोतुमर्ह ! भवत्कृपयाहं भूर्भुवः स्वः=प्राणापानव्यानैर्युक्तः सन् [भूः] प्रियस्वरूपः प्राण: [भुवः] बलनिमित्त उदानः [स्वः] सर्वचेष्टानिमित्तो व्यानश्च तैः सह प्रजाभिः अनुकूलाभिः स्त्र्यौरसविद्यासन्तानमित्रभृत्यराज्यपश्वादिभि: सुप्रजाः शोभना सुशिक्षासद्विद्यासहिता प्रजा यस्य सः वीरैः शौर्यधैर्यविद्याशत्रुनिवारणप्रजापालनकुशलैः सुवीर: शोभना वीराः=शरीरात्मबलसहिता यस्य सः पोषैः पुष्टिकारकैराप्तविद्याजनितैर्बोधयुक्तैर्व्यवहारैः सह च सुपोषः श्रेष्ठाः पोषा:=पुष्टयो यस्य सः स्याम्=नित्यं भवेयम् ।। ३ । ३७ ।।

[हे शंस्य=जगदीश्वर ! भवत्कृपयाऽहं......प्रजाभिः सुप्रजाः, वीरैः सुवीरः, पोषैः सह च सुपोषः स्यां=नित्यं भवेयम् ]
Special
वामदेव । प्रजापतिः=ईश्वरः। ब्राह्म्युष्णिक् । ऋषभः ॥