Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 36

63 Mantra
3/36
Devata- अग्निर्देवता Rishi- वामदेव ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ऽअ॑श्नोतु वि॒श्वतः॑। येन॒ रक्ष॑सि दा॒शुषः॑॥३६॥

परि॑। ते॒। दू॒डभः॑। दु॒र्दभ॒ऽइति॑ दुः॒ऽदभः॑। रथः॑। अ॒स्मान्। अ॒श्नो॒तु॒। वि॒श्वतः॑। येन॑। रक्ष॑सि। दा॒शुषः॑ ॥३६॥

Mantra without Swara
परि ते दूडभो रथो स्माँ अश्नोतु विश्वतः । येन रक्षसि दाशुषः ॥

परि। ते। दूडभः। दुर्दभऽइति दुःऽदभः। रथः। अस्मान्। अश्नोतु। विश्वतः। येन। रक्षसि। दाशुषः॥३६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(परि) सर्वतः (ते) तव व्यापकेश्वरस्य (दूडभः) दुखेन दम्भितुं=हिंसितुं योग्यः । अत्र दंभुधातोः खल् प्रत्ययः । दुरोदाशनाशदभध्येषु ऊत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम् ।।अ० ६ ।३ ।१०९ ।। एतत्सूत्रभाष्योक्तवार्तिकेन नकारलोपेन चास्य सिद्धिः (रथः) रयते=जानाति येन स रथः । रथो रंहतेर्गतिकर्मणः स्थिरतेर्वा स्याद्विपरीतस्य रममाणोस्मिंस्तिष्ठतीति वा स्पतेर्वारसतेर्वा ।।नि० ९ ।११ ।(अस्मान्) भवदाज्ञासेवकान् (अश्नोतु) अश्नुताम्=व्याप्नोतु । अत्र व्यत्ययेन परस्मैपदम् (विश्वतः) सर्वतः (येन) ज्ञानेन (रक्षसि) पालयसि (दाशुषः) विद्यादिदानकर्तॄन् ॥ अयं मंत्रः शत० २ ।३ ।४ ।४०-४१ ।व्याख्यातः ॥ ३६ ॥
Essence
मनुष्यैः सर्वाभिरक्षकस्य परमेश्वरस्य विज्ञानस्य च प्राप्तये प्रार्थना पुरुषार्थो नित्यं कर्त्तव्यो, यतो रक्षिताः सन्तो वयमसद्विद्याऽधर्मादिदोषांस्त्यक्त्वा सद्विद्याधर्मादिशुभगुणान् प्राप्य सदा सुखिनः स्यामेति ॥ ३ । ३६ ।।
Subject
स जगदीश्वरः कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
हे जगदीश्वर ! त्वं येन=रथेन ज्ञानेन दाशुषः विद्यादिदानकर्तृन् विश्वतः सर्वतः रक्षसि पालयसि ।

स ते=तव (तव) व्यापकेश्वरस्य दूडभः दुःखेन दम्भितुं=हिंसितुं योग्यः  रथः=विज्ञानंरयते=जानाति येन स रथः विश्वतः सर्वतः रक्षितुमस्मान् भवदाज्ञा सेवकान् पर्यश्नोतु=सर्वतः प्राप्नोतु सर्वत अश्नुतां=व्याप्नोतु ॥ ३ । ३६ ।।

[हे जगदीश्वर ! त्वं येन रथेन दाशुषो विश्वतो रक्षसि, स ते=तव......रथो=विज्ञानं विश्वतो रक्षितुमस्मान् पर्यश्नोतु=सर्वतः प्राप्नोतु]
Special
वामदेवः । अग्नि=ईश्वरः॥ निचृद् गायत्री ।षड्जः ॥