Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 35

63 Mantra
3/35
Devata- सविता देवता Rishi- विश्वामित्र ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त्॥३५॥

तत्। स॒वि॒तुः। वरे॑ण्यम्। भर्गः॑। दे॒वस्य॑। धी॒म॒हि॒। धि॒यः॑। यः। नः॒। प्र॒। चो॒द॒या॒त् ॥३५॥

Mantra without Swara
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥

तत्। सवितुः। वरेण्यम्। भर्गः। देवस्य। धीमहि। धियः। यः। नः। प्र। चोदयात्॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तत्) वक्ष्यामाणम् (सवितुः) सर्वस्य जगतः प्रसवितुः । सविता वै देवानां प्रसविता तथो हास्माऽएते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते ॥ शत० २ ।३ ।४ ।३९ ॥ (वरेण्यम्) अतिश्रेष्ठम् । अत्र वृञ एण्यः ।।उ० ३।९८ ॥ न वृञ् धातोरेण्यप्रत्ययः (भर्गः) भृज्जन्ति पापानि=दुःखमूलानि येन तत् । अन्च्यज्जियुजि० ॥ उ० ४ । २१६ ॥ इति भ्रस्जधातोरसुन्प्रत्ययः कवर्गादेशश्च (देवस्य) प्रकाशमयस्य शुद्धस्य सर्वसुखप्रदातुः परमेश्वरस्य (धीमहि ) दधीमहि । अत्र डुधाञ्धातोः प्रार्थनायां लिङ् छन्दस्युभयथेत्यार्धधातुकत्वाछब् न । आतो लोप इटि चेत्याकारलोपश्च। (धियः) प्रज्ञा बुद्धिः । धीरिति प्रज्ञानामसु पठितम् ॥ निघं॰ ३ ॥ ९ ॥ (यः) सविता देवः परमेश्वरः (नः) अस्माकम् (प्र) प्रकृष्टार्थे (चोदयात्) प्रेरयेत् ॥ अयं मन्त्रः शत० २ । ३ । ४ । ३९ व्याख्यातः ॥ ३५ ॥
Essence
-मनुष्यैः सकलजगदुत्पादकस्य सर्वोत्कृष्टस्य सकलदोषनाशकस्य शुद्धस्य परमेश्वरस्यैवोपासना नित्यं कार्या, कस्मै प्रयोजनायेत्यत्राह—

[यः....नः=अस्माकं धियः प्रचोदयात्=प्रेरयेत्]

स स्तुतो, धारितः, प्रार्थितः, उपासितः सन्नस्मान् सर्वेभ्यो दुष्टगुणकर्मस्वभावेभ्यः पृथक्कृत्य सर्वेषु गुणकर्मस्वभावेषु नित्यं प्रवर्त्तयेदित्यस्मै ।

[प्रार्थनासिद्धान्तमाह--]

अयमेव प्रार्थनाया मुख्य: सिद्धान्तः–यादृशीं प्रार्थनां कुर्यात् तादृशमेव कर्माचरेदिति ॥ ३ ॥ ३५ ।।
Subject
तस्य जगदीश्वरस्य कीदृश्यः स्तुतिप्रार्थनोपासनाः कार्या इत्युपदिश्यते ॥
Meaning of Anvay
वयं सवितुः सर्वस्य जगतः प्रसवितुः देवस्य=परमेश्वरस्य प्रकाशमयस्य शुद्धस्य सर्वसुखप्रदातुः परमेश्वरस्य यद् वरेण्यम् अतिश्रेष्ठं भर्गःभृज्जन्ति पापानि दुःखमूलानि येन तत् स्वरूपमस्ति तद् धीमहि दधीमहि।

 यः=सविता देवोऽन्तर्यामी परमेश्वरः नः=अस्माकं धिय: प्रज्ञा: बुद्धी: प्रचोदयात्=प्रेरयेत प्रकृष्टं प्रेरयेत् ।।३।३५ ।।

[वयं सवितुर्देवस्य=परमेश्वरस्य यद् वरेण्यं भर्गः स्वरूपमस्ति तद् धीमहि]
Meaning of Essence
भा० पदार्थः-- सवितुः=सकलजगदुत्पादकस्य। वरेण्यम्=सर्वोत्कृष्टम् । भर्ग:=सकलदोषनाशकम् । प्रचोदयात्=नित्यं प्रवर्त्तयेत् ॥
Special
विश्वामित्र: । सविता=ईश्वरः ।निचृद्गायत्रीः। षड्जः ॥