Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 33

63 Mantra
3/33
Devata- आदित्यो देवता Rishi- वारुणिः सप्तधृतिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
ते हि पु॒त्रासो॒ऽअदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य। ज्योति॒र्यच्छ॒न्त्यज॑स्रम्॥३३॥

ते। हि। पु॒त्रासः॑। अदि॑तेः। प्र। जी॒वसे॑। मर्त्या॑य। ज्योतिः॑। यच्छ॑न्ति। अज॑स्रम् ॥३३॥

Mantra without Swara
ते हि पुत्रासो अदितेः प्र जीवसे मर्त्याय । ज्योतिर्यच्छन्त्यजस्रम् ॥

ते। हि। पुत्रासः। अदितेः। प्र। जीवसे। मर्त्याय। ज्योतिः। यच्छन्ति। अजस्रम्॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ते) पूर्वोक्ता: (हि) निश्चये (पुत्रासः) मित्रार्यमवरुणा: (अदितेः) अखण्डिताया: कारणशक्तेः (प्र) प्रकृष्टार्थे (जीवसे) जीवितुम् (मर्त्याय) मनुष्याय (ज्योतिः) तेज: (यच्छन्ति) ददति (अजस्रम्) निरन्तरम् ॥ अयं मन्त्रः शत० २ ।३ ।४ ।३७  व्याख्यातः ॥ ३३ ॥
Essence
एते कारणादुत्पन्नाः प्राणवाय्वादयो नित्यं ज्योतिः प्रयच्छन्तः सर्वेषां जीवनाय मरणाय वा निमित्तानि भवन्तीति ।। ३ । ३३ ।।
Subject
आदित्यानां किं कर्मास्तीत्युपदिश्यते ।।
Meaning of Anvay
येऽदितेः अखण्डितायाः कारणशक्तेः पुत्रासः=पुत्राः मित्रार्यमवरुणाः ते पूर्वोक्ता हि निश्चयेन मर्त्याय मनुष्याय जीवसे जीवितुम् अजस्रम् निरन्तरं ज्योतिः तेजः प्रयच्छन्ति प्रकृष्टं ददति ।। ३ । ३३ ।।

[येऽदितेः पुत्रासः=पुत्रास्ते हि मर्त्याय जीवसेऽजस्रं ज्योतिः प्रयच्छन्ति]
References
इस मन्त्र की व्याख्या शत० (२ ।३ ।४ ।३७) में की गई है ।। ३ । ३३ ।।
Special
वारुणिः सप्तधृतिः । आदित्यः=मित्रार्यमवरुणाः ।।विराड् गायत्री ।षड्जः ।।