Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 32

63 Mantra
3/32
Devata- आदित्यो देवता Rishi- सप्तधृतिर्वारुणिर्ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑। ईशे॑ रि॒पुर॒घश॑ꣳसः॥३२॥

न॒हि। तेषा॑म्। अ॒मा। च॒न। न। अध्व॒स्वित्यध्व॑ऽसु। वा॒र॒णेषु॑। ईशे॑। रि॒पुः। अ॒घश॑ꣳस॒ इत्य॒घऽश॑ꣳसः ॥३२॥

Mantra without Swara
नहि तेषाममा चन नाध्वसु वारणेषु । ईशे रिपुरघशँसः ॥

नहि। तेषाम्। अमा। चन। न। अध्वस्वित्यध्वऽसु। वारणेषु। ईशे। रिपुः। अघशꣳस इत्यधऽशꣳसः॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (नहि) निषेधार्थे (तेषाम्) परमेश्वरोपासकानां सूर्यप्रकाशस्थितानां वा (अमा) गृहेषु । अमेति गृहनामसु पठितम् ॥ निघं॰ ३ ।४ ॥ (चन) अपि (न) निषेधार्थे (अध्वसु) मार्गेषु (वारणेषु) वारयन्ति यैर्युद्धैस्तेषु वा वारयन्ति ये चोरदस्युव्याघ्रादयो येषु तेषु (ईशे) समर्थो भवामि (रिपुः) शत्रुः (अघशंसः) योऽघानि=पापानि कर्माणि शंसति सः । अयं मंत्रः शत० २ ।३ ।४ ।३७ व्याख्यातः ॥ ३२ ॥
Essence
ये धर्मात्मानः सर्वोपकारकाः सन्ति नैव क्वापि तेषां भयं भवति, येऽजातशत्रवो नैव तेषां कश्चिदपि शत्रुर्जायते ।।३ ।३२ ।।
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
य ईश्वरोपासकास्तेषां परमेश्वरोपासकानां सूर्यप्रकाशस्थितानां वा अमा=गृहेषु, अध्वसु मार्गेषु वारणेषु वारयन्ति यैर्युद्धैस्तेषु, वा वारयन्ति ये चोरदस्युव्याघ्रादयो येषु तेषु चन अपि अघशंसः योऽघानि=पापानि कर्माणि शंसति स रिपुः शत्रुः नह्युत्तिष्ठते=न खलु तान् क्लेशयितुं शक्नोति, तं तांश्चाहमीशे समर्थो भवामि ॥ ३ । ३२ ।।

[य ईश्वरोपासकास्तेषां......रिपुर्नह्युत्तिष्ठते=न खलु तान् क्लेशयितुं शक्नोति ]
Special
सप्तधृतिर्वारुणिः । आदित्यो=ईश्वरः । निचृद्गायत्री । षड्जः ॥