Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 31

63 Mantra
3/31
Devata- आदित्यो देवता Rishi- सप्तधृतिर्वारुणिर्ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः। दु॒रा॒धर्षं॒ वरु॑णस्य॥३१॥

महि॑। त्री॒णाम्। अवः॑। अ॒स्तु॒। द्यु॒क्षम्। मि॒त्रस्य॑। अ॒र्य॒म्णः। दु॒रा॒धर्ष॒मिति॑ दुःऽआ॒धर्ष॑म्। वरु॑णस्य ॥३१॥

Mantra without Swara
महि त्रीणामवो स्तु द्युक्षम्मित्रस्यार्यम्णः । दुराधर्षँवरुणस्य ॥

महि। त्रीणाम्। अवः। अस्तु। द्युक्षम्। मित्रस्य। अर्यम्णः। दुराधर्षमिति दुःऽआधर्षम्। वरुणस्य॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(महि) महत् (त्रीणाम्) त्रयाणां सकाशात् । अत्र वा छन्दसि सर्वे विधयो भवन्तीति त्रेस्त्रय इति त्रयादेशो न (अवः) रक्षणादिकम् (अस्तु) भवतु (द्युक्षम्) द्यौर्नीतिः प्रकाशः क्षियति=निवसति यस्मिंस्तत् (मित्रस्य) बाह्याभ्यन्तरस्थस्य प्राणस्य (अर्यम्णः) य ऋच्छति=नियच्छत्याकर्षणेन पृथिव्यादीन्स सूर्यलोकस्तस्य ।श्वन्नुक्षन्पूषन० ॥ उ० १ ।१५९ ॥ अनेनायं निपातितः (दुराधर्षम्) दुःखेनाधर्षितुं योग्यं दृढ़म् (वरुणस्य) वायोर्जलस्य वा । वरुण इति पदनामसु पठितम् ॥ निघं० ५ । ४ ॥ न प्राप्तिसाधनो गृह्यते ॥ अयं मन्त्रः शत० २ ।३ ।४ ।३७ व्याख्यातः ॥ ३१ ॥
Essence
अत्र पूर्वस्मान्मन्त्राद् 'ब्रह्मणस्पते', 'नः' इति पदद्वयानुवृत्तिर्विज्ञेया ।

[हे ब्रह्मणस्पते ! तव कृपया मित्रस्यार्यम्णो वरुणस्य त्रीणां सकाशात्, नः=अस्माकं द्युक्षं......[महि] महदवोऽस्तु]

मनुष्यैस्सर्वेभ्यः पदार्थेभ्यः स्वस्यान्येषां च न्यायेन रक्षणं कृत्वा राज्यपालनं कार्यमिति ॥ ३ । ३१ ।।
Subject
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते ।।
Meaning of Anvay
 हे ब्रह्मणस्पते ! तव कृपया मित्रस्य बाह्याभ्यन्तरस्थस्य प्राणस्य अर्य्यम्णः  य ऋच्छति=नियच्छत्याकर्षणेन पृथिव्यादीन् स सूर्यलोकस्तस्य वरुणस्य वायोर्जलस्य वा त्रीणां त्रयाणां (सकाशात् ) सकाशात् नः=अस्माकं द्युक्षं द्यौर्नीतिः प्रकाशः क्षियति=निवसति यस्मिंस्तत् दुराधर्षं दुःखेनाधार्षितुं योग्यं दृढं [महि]=महद् श्रवो रक्षणादिकम् अस्तु भवतु ॥ ३ । ३१ ।।

[अनुवृत्तिमाह--]
Meaning of Essence
भा० पदार्थ:-- द्युक्षम्=राज्यम् ॥
Special
सत्यधृतिर्वारुणिः। आदित्य:=ईश्वरः ॥ विराड् गायत्री। षड्ज: ॥