Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 30

63 Mantra
3/30
Devata- ब्रह्मणस्पतिर्देवता Rishi- सप्तधृतिर्वारुणिर्ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
मा नः॒ शꣳसो॒ऽअर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य। रक्षा॑ णो ब्रह्मणस्पते॥३०॥

मा। नः॒। शꣳसः॑। अर॑रुषः। धू॒र्तिः। प्रण॑क्। मर्त्य॑स्य। रक्ष॑। नः॒। ब्र॒ह्म॒णः॒। प॒ते॒ ॥३०॥

Mantra without Swara
मा नः शँसो अररुषो धूर्तिः प्र णङ्नर्त्यस्य । रक्षा णो ब्रह्मणस्पते ॥

मा। नः। शꣳसः। अररुषः। धूर्तिः। प्रणक्। मर्त्यस्य। रक्ष। नः। ब्रह्मणः। पते॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) निषेधार्थे (नः) अस्माकम् ( (शंसः) शंसंति=स्तुवन्ति यस्मिन्स: (अररूष:) राति-ददाति स ररिवान्, न ररिवानररिवान् तस्य (धूर्तिः) हिंसा (प्रणक्) प्रणश्यतु । अत्र लोडर्थे लुङ् । मन्त्रे घसह्वरण० । इति च्लेर्लुक् च (मर्त्यस्य) मनुष्यस्य । मर्त्य इति मनुष्यनामसु पठितम् ॥ निघं० २ । ३ ॥ (रक्ष) पालय । अत्र द्व्यचोतस्तिङ इति दीर्घः (नः) यस्मान् (ब्रह्मणस्पते) जगदीश्वर। षष्ठ्याः पति पुत्र० ॥ अ० ८ । ३ । ५३ ॥ इति विसर्जनीयस्य सकारादेशः ॥ अयं मंत्र: शत० २ ।३ ।४ ।३५ व्याख्यातः।। ३० ॥
Essence
 मनुष्यैः सदा प्रशंसनीयानि कर्माणि कर्त्तव्यानि नेतराणि ।

[याऽररुषः=परस्वादायिनो मर्त्यस्य धूर्तिः=हिंसाऽस्ति तस्याः सकाशान्नः=अस्मान् सततं रक्ष]

 कस्यचिद् द्रोहो दुष्टानां सङ्गश्च नैव कर्त्तव्यः ।

[ तात्पर्यमाह--]

धर्मस्य रक्षेश्वरोपासनं च सदैव कर्त्तव्यमिति ।। ३ । ३० ।।
Subject
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते ।।
Meaning of Anvay
हे ब्रह्मणस्पते ! जगदीश्वर ! भवत्कृपया  नः=अस्माकं  शंस: शंसन्ति=स्तुवन्ति यस्मिन् सः, मा प्रणक्=कदाचिन्मा प्रणश्यतु ।

याऽरुष:=परस्वादायिनो  राति=ददाति स ररिवान् न ररिवान ररिवान् तस्य मर्त्यस्य मनुष्यस्य धूर्तिः=हिंसास्ति, तस्याः सकाशान्न:=अस्मान् सततं रक्ष पालय ।।३।३० ।।

[ हे ब्रह्मणस्पते ! भवत्कृपया नः=अस्माकं शंसोमा प्रणक्=कदाचिन्मा प्रणश्यतु]
Meaning of Essence
भा० पदार्थ--शंसः=प्रशंसनीय कर्म । अररुष:=दुष्टस्य ।धूर्तिः=द्रोहः ।
Special
सप्तधृतिर्वारुणिः । ब्रह्मणस्पतिः=जगदीश्वरः॥ निचृद् गायत्री । षड्जः ।।