Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 29

63 Mantra
3/29
Devata- बृहस्पतिर्देवता Rishi- मेधातिथिर्ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
यो रे॒वान् योऽअ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्द्ध॑नः। स नः॑ सिषक्तु॒ यस्तु॒रः॥२९॥

यः। रे॒वान्। यः। अ॒मी॒व॒हेत्य॑मीऽव॒हा। व॒सु॒विदिति॑ वसु॒ऽवित्। पु॒ष्टि॒वर्द्ध॑न॒ इति॑ पुष्टि॒ऽवर्द्ध॑नः। सः। नः॒। सि॒ष॒क्त्विति सिषक्तुः। यः। तु॒रः ॥२९॥

Mantra without Swara
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ॥

यः। रेवान्। यः। अमीवहेत्यमीऽवहा। वसुविदिति वसुऽवित्। पुष्टिवर्द्धन इति पुष्टिऽवर्द्धनः। सः। नः। सिषक्त्विति सिषक्तुः। यः। तुरः॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यः) ब्रह्मणस्पतिर्जगदीश्वरः (रेवान्) विद्याधनवान् । अत्र रविशब्दान्मतुप्। छन्दसीरः ।।अ० ८ । २ । १५ ।। इति मकारस्थाने वकारादेशः । रयेर्मतौ संप्रसारणं बहुलं वक्तव्यम् ॥ अ॰ ६ ।१ ।३७ ।। इति वार्तिकेन यकारस्थाने संप्रसारणादेशश्च (यः) महान् (अमीवहा) योऽमीवानविद्यादिरोगान् हन्ति सः (वसुवित्) यो वसूनि=सर्वाणि वस्तूनि यथावद्वेत्ति वेदयति वा सः (पुष्टिऽवर्द्धनः) पुष्टिं=शरीरात्मबलं धातुसाम्यं च वर्द्धयतीति (सः) परमात्मा (नः) अस्मान् (सिषक्तु) संयोजयतु । षच समवाय इत्यस्माच्छपः स्थाने बहुलं छन्दसीति श्लुर्बहुलं छन्दसीत्यभ्यासस्येकारादेशश्च (यः) उक्तो वक्ष्यमाणश्च (तुरः) शीघ्रकारी ॥ अयं मंत्रः शत० २।३।४ । ३५ व्याख्यातः ॥ २९॥
Essence
 यदिदं विश्वस्मिन् धनमस्ति तदिदं सर्वं जगदीश्वरस्यैव वर्तते । मनुष्यैर्यादृशी प्रार्थनेश्वरस्य क्रियते स्वैरपि तादृश एव पुरुषार्थ: कर्त्तव्यः। यथा--नैव रेवानितीश्वरस्य विशेषणमुक्त्वा श्रुत्वा च कश्चित् कृतकृत्यो भवति, किं तर्हि--स्वेनापि परमपुरुषार्थेन धनवृद्धिरक्षणे सततं कार्ये ।

[अमीवहा]

यथा सोऽमीवहाऽस्ति, तथैव मनुष्यैरपि रोगा नित्यं हन्तव्याः ।

[वसुवित्]

यथा स वसुविदस्ति तथैव यथाशक्ति पदार्थविद्या कार्या ।

[पुष्टिवर्द्धनः]

यथा स सर्वेषां पुष्टिवर्द्धनस्तथैव सर्वेषां नित्यं पुष्टिवर्द्धनीया ।

[तुरः]

यथा स शीघ्रकारी तथैवेष्टानि कार्याणि शीघ्रं कर्त्तव्यानि ।

[ ब्रह्मणस्पतिर्जगदीश्वरः......नः=अस्मान् शुभैर्गुणैः कर्मभिश्च  सह=सिषक्तु=संयोजयतु ]


 यथा तस्य शुभगुणकर्मप्राप्त्यर्था प्रार्थना क्रियते तथैव सर्वान् मनुष्यान् परमप्रयत्नेन शुभगुणकर्माचरणेन सह वर्तमानान् नित्यं संयोजयत्विति ।। ३ । २९ ।।
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
यो महान् रेवान् विद्याधनवान् अमीवहा योऽमीवानविद्यादिरोगान् हन्ति स वसुवित् यो वसूनि=सर्वाणि वस्तूनि यथावद्वेत्ति वेदयति वा स पुष्टिवर्द्धनः पुष्टिं=शरीरात्मबलं धातुसाम्यं च वर्द्धयतीति [यः] उक्तो वक्ष्यमाणश्च तुरः शीघ्रकारी [यः]=ब्रह्मणस्पतिर्जगदीश्वरोऽस्ति सः परमात्मा नः=अस्मान् शुभैर्गुणैः कर्मभिश्च सह सिषक्तु=संयोजयतु ॥ ३ ।२९ ॥

[रेवान्]
Special
मेधातिथि: । बृहस्पतिः=ईश्वरः ॥ गायत्री । षड्जः ।।