Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 28

63 Mantra
3/28
Devata- बृहस्पतिर्देवता Rishi- प्रबन्धु ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
सो॒मान॒ꣳ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते। क॒क्षीव॑न्तं॒ यऽऔ॑शि॒जः॥२८॥

सो॒मान॑म्। स्व॑रणम्। कृ॒णु॒हि॒। ब्र॒ह्म॒णः॒। प॒ते॒। क॒क्षीव॑न्तम्। यः। औ॒शि॒जः ॥२८॥

Mantra without Swara
सोमानँ स्वरणङ्कृणुहि ब्रह्मणस्पते । कक्षीवन्तँ यऽऔशिजः ॥

सोमानम्। स्वरणम्। कृणुहि। ब्रह्मणः। पते। कक्षीवन्तम्। यः। औशिजः॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सोमानम्) सुनोति=निष्पादयत्योषधिसारान् विद्यासिद्धीश्च । येन तम् (स्वरणम्) सर्वविद्याप्रवक्तारम् (कृणुहि) संपादय (ब्रह्मणस्पते) सनातनस्य वेदशास्त्रस्य पालकेश्वर ! (कक्षीवन्तम् ) कक्षेषु=विद्याध्ययनकर्मसु साध्वी नीतिः कक्षा सा बह्वी विद्यते यस्य विद्यां जिवृक्षोस्तम्। अत्र भूम्न्यर्थे मतुप् । कक्ष्यायाः संज्ञायां मतौ संप्रसारणं कर्त्तव्यम् ॥अ० ६ ।१ ।३७ ॥ इति वार्तिकेन संप्रसारणादेशः । आसंदीवदष्ठीवच्च० ॥ अ० ८ ।२ ।१२ ॥ इति निपातनान्मकारस्थाने वकारादेशश्च (यः) विद्वान् (औशिजः) यः सर्वा विद्या वष्टि स उशिक् तस्य विद्यापुत्र इव ॥ यास्कनुनिरिमं मंत्रमेमं समाचष्टे: सोमानं सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः कक्षीवान् कक्ष्यावानौशिज उशिजः पुत्रः उशिग्वष्टे: कान्तिकर्मणोपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानं सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते ॥ निरु० ६ ।१० ॥ अयं मंत्रः शत० २ । ३ । ४ । ३५ व्याख्यातः ॥ २८ ॥
Essence
अत्र लुप्तोपमालङ्कारः ॥ पुत्रो द्विविध--एक औरसो द्वितीयो विद्याजः, सर्वैर्मनुष्यैरीश्वर एतदर्थं प्रार्थनीयः, यस्माद् वयं विद्याप्रकाशितैः सर्वक्रियाकुशलैः प्रीत्या विद्याध्यापकैः पुत्रैर्युक्ता भवेमेति ॥ ३ ॥ २८ ॥
Subject
पुनः स जगदीश्वरः किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
Meaning of Anvay
हे ब्रह्मणस्पते! सनातनस्य वेदशास्त्रस्य पालकेश्वर ! त्वं यः विद्वान् अहमौशिजः यः सर्वा विद्या वष्टि स उशिक् तस्य विद्यापुत्र इव अस्मि,तं कक्षीवन्तं कक्षेषु=विद्याध्ययनकर्मसु साध्वीनीतिः कक्षा, सा,बह्वी विद्यते यस्य विद्यां जिवृक्षोस्तं स्वरणं सर्वविद्याप्रवक्तारं सोमानं सुनोति=निष्पादयत्योषषधिसारान् विद्यासिद्धीश्च येन तं मांकृणुहि=सम्पादय ।। ३।२८॥

[हे ब्रह्मणस्पते ! त्वं योऽहमौशिजोऽस्मि, तं कक्षीवन्तं, स्वरणं सोमानं मां कृणुहि=सम्पादय]
Meaning of Essence
भा० पदार्थः-- औशिज:=विद्याजः पुत्रः । स्वरणम्=विद्याध्यापकम् । सोमानम्=विद्याप्रकाशितं सर्वक्रियाकुशलम् ॥
Special
प्रबन्धुः। बृहस्पतिः=ईश्वरः ॥ विराड् गायत्री । षड्जः ॥