Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 26

63 Mantra
3/26
Devata- अग्निर्देवता Rishi- सुबन्धुर्ऋषिः Chhand- स्वराट् बृहती, Swara- मध्यमः
Mantra with Swara
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात्॥२६॥

तम्। त्वा॒। शो॒चि॒ष्ठ। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धि। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒त इत्य॑घऽयतः। स॒म॒स्मा॒त् ॥२६॥

Mantra without Swara
तन्त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः । स नो बोधि श्रुधी हवमुरुष्या णोऽ अधायतः समस्मात् ॥

तम्। त्वा। शोचिष्ठ। दीदिव इति दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिभ्य इति सखिऽभ्यः। सः। नः। बोधि। श्रुधि। हवम्। उरुष्य। नः। अघायत इत्यघऽयतः। समस्मात्॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिव:) प्रकाशमयानन्दप्रद । अत्र दिवुधातोश्छन्दसि लिडिति लिट् । क्वसुश्चेति लिटः स्थाने क्वसुः । छन्दस्युभयथेति लिडादेशस्य क्वसोः सर्वाधातुकत्वादिडभावः। तुजादीनां दीर्घोभ्यासस्येत्यभ्यासदीर्घः। मतुवसो रुः संबुद्धौ छन्दसीति रुरादेशश्च (सुम्नाय ) सुखाय । सुम्नमिति सुखनामसु पठितम् ॥ निघं० ३ ॥ ९ ॥ (नूनम्) निश्चयार्थे (ईमहे) याचामहे । ईमह इति याच्ञाकर्ममु पठितम् ॥ निघं० ।३ ।१९ ॥ ( सखिभ्यः ) मित्रेभ्यः (सः) जगदीश्वरः ( नः )। अस्मानस्माकं वा (बोधि) बोधयति । अत्र लडर्थे लुङ बहुलं छन्दसीत्यडभावोन्तर्गतो ण्यर्थश्च (श्रुधि) शृणु ।

अत्र द्व्यचोतस्तिङ इति दीर्घः । बहुलं छन्दसीति श्नोर्लुक् शुशृणु॰ इति हेर्ध्यादेशश्च (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञसमूहं (उरुष्य) रक्ष। अत्र कण्ड्वाद्याकृतिगणत्वादुरुषशब्दाद्यक् ततोन्येषामपीति दीर्घः (नः) अस्मान्। अत्र नश्च धातुस्थोरुषुभ्यः ॥ अ॰ ८। ४ ।२७ ॥ इति णकारादेशः (अघायतः) यः परस्याधमिच्छत्यघायति ततः । आचार्यप्रभृतिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति । यदयमश्वघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति ॥ अ० ३।१। ८॥ अस्मिन्सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम् (समस्मात्) सर्वस्मात्। समशब्दोत्र सर्वपर्यायः ॥ अयं मंत्रः श० २ ।३ ।४ ।३१-३३ व्याख्यातः॥
Essence
भावार्थ:- सर्वैर्मनुष्यैः स्वार्थं, स्वमित्रार्थं, सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम् ।

[नः=अस्मान्  समस्मात्=सर्वस्मादघायतः=परपीडाकरणरूपात् पापादुरुष्य=सततं पृथक् रक्ष]

  प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थायां सर्वेभ्यः पापेभ्यो निवृत्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम् ।। ३ । २६ ।।
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
 हे शोचिष्ठ ! पवित्रतम ! दीदिवः ! प्रकाशमयानन्दप्रद ! जगदीश्वर ! वयं नः=अस्माकं सखिभ्यः मित्रेभ्यः च नूनं निश्चितं सुम्नाय सुखाय तं जगदीश्वरं  [त्वा]=त्वामीमहे याचामहे ।

यो भवान् नः=अस्मान् बोधि=सम्यग् विज्ञानं बोधयति सः जगदीश्वरः त्वं नः अस्माकं हवं श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञं श्रुधि=कृपया शृणु । नः=अस्मान् समस्मात्=सर्वस्मात् अघायतः= परपीडाकरणरूपात् पापात् यः परस्याघमिच्छत्यघायति ततः उरुष्य=सततं पृथक् रक्ष ।।३ ।२६ ॥

[हे ....जगदीश्वर ! वयं  नः=अस्माकं सखिभ्यश्च नूनं सुम्नाय तं [त्वा ] त्वामीमहे]
Meaning of Essence
भा० पदार्थ:-सुम्नाय=सुखप्राप्तये ।
Special
सबन्धुः । अग्निः=ईश्वरः ॥ स्वराड् बृहती। मध्यमः ।।