Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 25

63 Mantra
3/25
Devata- अग्निर्देवता Rishi- सुबन्धुर्ऋषिः Chhand- भूरिक् बृहती, Swara- मध्यमः
Mantra with Swara
अग्ने॒ त्वं नो॒ऽअन्त॑मऽउ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः। वसु॑र॒ग्निर्वसु॑श्रवा॒ऽअच्छा॑ नक्षि द्यु॒मत्त॑मꣳ र॒यिं दाः॑॥२५॥

अग्ने॑। त्वम्। नः॒। अन्त॑मः। उ॒त। त्रा॒ता। शि॒वः। भ॒व॒। व॒रू॒थ्यः᳖। वसुः॑। अ॒ग्निः। वसु॑श्रवा॒ इति॒ वसु॑ऽश्रवाः। अच्छ॑। न॒क्षि॒। द्यु॒मत्त॑म॒मिति॑ द्यु॒मत्ऽत॑मम्। र॒यिम्। दाः॒ ॥२५॥

Mantra without Swara
अग्ने त्वन्नोऽअन्तमऽउत त्राता शिवो भवा वरूथ्यः । वसुरग्निर्वसुश्रवा अच्छानक्षि द्युमत्तमँ रयिं दाः ॥

अग्ने। त्वम्। नः। अन्तमः। उत। त्राता। शिवः। भव। वरूथ्यः। वसुः। अग्निः। वसुश्रवा इति वसुऽश्रवाः। अच्छ। नक्षि। द्युमत्तममिति द्युमत्ऽतमम्। रयिम्। दाः॥२५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) सर्वाभिरक्षकेश्वर (त्यम्) करुणामयः (नः) अस्माकमस्मभ्यं वा (अन्तमः) य आत्मान्तःस्थोऽनिति-जीवयति सोतिशयितः । स उ प्राणस्य प्राणः ॥ केनोपनिषत् ।खं० १ । मं० २ ॥ अनेनात्मान्तःस्थोऽन्तर्यामी गृह्यते (उत) अपि ( त्राता) रक्षक: (शिवः) मङ्गलमयो मङ्गलकारी (भवा) अत्र द्व्यचोतस्तिङ इति दीर्घः (वरूथ्यः) यो वरुथेषु=श्रेष्ठेषु गुणकर्मस्वभावेषु भवः (वसुः) वसन्ति सर्वाणि भूतानि यस्मिन् यो वा सर्वेषु भूतेषु वसति सः (अग्निः) विज्ञानप्रकाशमयः (वसुश्रवाः) वसूनि=सर्वाणि श्रवांसि श्रवणानि यस्य सः (अच्छ) श्रेष्ठार्थे। निपातस्य चेति दीर्घः (नक्षि) सर्वत्र व्याप्तोऽसि । अत्र णक्ष गतावित्यस्माल्लटि मध्यमैकवचने बहुलं छन्दसीति शपी लुक् (द्युमत्तमम्) द्यौः=प्रशस्तः प्रकाशो विद्यते यस्मिँस्तदतिशयितस्तम् (रयिम्) विद्याचक्रवर्त्यादिधनसमूहम् (दाः) देहि । अत्र लोडर्थे लुङ् बहुलं छन्दस्य माङ्॰ । अनेनाडभावश्च ॥ अयं मंत्रः श० २ ।३ ।४ ।३१ व्याख्यातः ॥ २५ ॥
Essence
भावार्थ:-मनुष्यैरित्थं वेदितव्यं--परमेश्वरं विहाय नोऽस्माकं कश्चिदन्यो रक्षको नास्तीति, कुतस्तस्य सर्वशक्तिमत्त्वेन सर्वत्राभिव्यापकत्वादिति ॥ ३ ।२५ ।।
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
हे अग्ने! सर्वाभिरक्षकेश्वर ! यस्त्वं करुणामयः वसुश्रवाः वसूनि=सर्वाणि श्रवांसि श्रवणानि यस्य स वसुः वसन्ति सर्वाणि भूतानि यस्मिन् वा सर्वेषु भूतेषु वसति सः अग्निः विज्ञानप्रकाशमयः नक्षि=सर्वत्र व्याप्तोऽसि स त्वं नः=अस्माकम् अस्माकमस्मभ्यं वा अन्तमः य आत्मान्तःस्थोऽनिति=जीवयति सोतिशयितः त्राता रक्षकः वरूथ्यः यो वरूथेषु=श्रेष्ठेषु गुणकर्मस्वभावेषु भवः शिवो मङ्गलमयो मङ्गलकारी भव।

 उत=अपि=नः=अस्मभ्यं द्युमत्तमं  द्यौः=प्रशस्तः प्रकाशो विद्यते यस्मिँस्तदतिशयितस्तं रयिं विद्याचक्रवर्त्यादिधनसमूहं अच्छ (श्रेष्ठम्) दाः=सम्यग्देहि ।।३ ।२५ ।।

[ हे अग्ने.....त्वं नः=अस्माकम्......त्राता.....भव ]
Special
सुबंधुर्ऋषिः । अग्निः=ईश्वरः । भुरिग्बृहती। मध्यमः ।।