Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 24

63 Mantra
3/24
Devata- अग्निर्देवता Rishi- वैश्वामित्रो मधुच्छन्दा ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व। सच॑स्वा नः स्व॒स्तये॑॥२४॥

सः। नः॒। पि॒तेवेति॑ पि॒ताऽइ॑व। सू॒नवे॑। अग्ने॑। सू॒पा॒य॒न इति॑ सुऽउ॒पा॒य॒नः। भ॒व॒। सच॑स्व। नः॒। स्व॒स्तये॑ ॥२४॥

Mantra without Swara
स नः पितेव सूनवे ग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥

सः। नः। पितेवेति पिताऽइव। सूनवे। अग्ने। सूपायन इति सुऽउपायनः। भव। सचस्व। नः। स्वस्तये॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सः) जगदीश्वरः (नः) अस्मभ्यम् (पितेव) जनक इव ( सूनवे) औरसाय संतानाय । सूनुरित्यपत्यनामसु पठितम् ॥ निघं० २ ।२ ।। (अग्ने) करुणामय विज्ञानस्वरूप सर्वपितः (सूपायन:) सुष्ठूपगतमयनं=ज्ञानं प्रापणं यस्मान्सः (भव) भवसि । अत्र लडर्थे लोट् (सचस्व) संयोजय । अन्येषामपि दृश्यते इति दीर्घः (नः) अस्मान् (स्वस्तये) सुखाय ॥ अयं मंत्रः श० २ ।३ ।४ ।३०  व्याख्यातः ।। २४ ॥
Essence
अत्रोपमालङ्कारः ॥ हे सर्वपितरीश्वर ! यथा कृपायमाणो विद्वान् पिता स्वसन्तानान् संरक्ष्य सुशिक्ष्य च विद्याधर्मसुशीलतादिषु संयोजयति, तथैव भवानस्मान् निरन्तरं रक्षित्वा श्रेष्ठेषु व्यवहारेषु संयोजयत्विति ॥ ३ ॥ २४ ॥
Subject
अथाग्रिमेण मंत्रेणेश्वर एवोपदिश्यते ।।
Meaning of Anvay
हे अग्ने=जगदीश्वर ! करुणामय विज्ञानस्वरूप सर्वपितः ! यस्त्वं कृपया सूनवे औरसाय सन्तानाय पितेव जनक इव नः=अस्मभ्यं सूपायनः सुष्ठूपगतमयनं=ज्ञानं प्रापणं यस्मात्स [भव] भवसि ।

स जगदीश्वरः त्वं नः=अस्मान् स्वस्तये सुखाय सततं सचस्व=संयोजय ।। ३ । २४ ।।

[हे अग्ने=जगदीश्वर ! यस्त्वं कृपया सूनवे पितेव नः=अस्मभ्यं सूपायनो [भव ]=भवसि, स त्वं नः=अस्मान् स्वस्तये सततंसचस्व=संयोजय]
Meaning of Essence
भा॰ पदार्थ:--सूनवे=स्वसन्तानाय ।  पितेव=यथा विद्वान् पिता । सूपायन:=संरक्ष्य सुशिक्ष्य च विद्यादिषु संयोजकः । स्वस्तये=विद्याधर्मसुशीलतादये, श्रेष्ठव्यवहाराय ।।
Special
वैश्वामित्रो मधुच्छन्दाः । अग्निः=ईश्वरः । विराड्गायत्री ।षड्जः ।।