Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 23

63 Mantra
3/23
Devata- अग्निर्देवता Rishi- वैश्वामित्रो मधुच्छन्दा ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम्। वर्द्ध॑मान॒ꣳ स्वे दमे॑॥२३॥

राज॑न्तम्। अ॒ध्व॒राणा॑म्। गो॒पाम्। ऋ॒तस्य॑। दीदि॑विम्। वर्ध॑मानम्। स्वे। दमे॑ ॥२३॥

Mantra without Swara
राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम् । वर्धमानँ स्वे दमे ॥

राजन्तम्। अध्वराणाम्। गोपाम्। ऋतस्य। दीदिविम्। वर्धमानम्। स्वे। दमे॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(राजन्तम्) प्रकाशमानम् (अध्वराणाम्) अग्निहोत्राद्यश्वमेधान्तानां शिल्पविद्यासाध्यानां वा सर्वथा रक्ष्याणां यज्ञानाम् (गोपाम्) इन्द्रियपश्वादीनां रक्षकम् (ॠतस्य) अनादिस्वरूपस्य सत्यस्य कारणस्य जलस्य वा। ऋतमिति सत्यनामसु पठितम् ॥ निघं० ३ । १०॥ उदकनामसु च ॥ निघं० १।१२ ॥ (दीदिविम्) व्यवहारयन्तम् । अत्र दिवो द्वे दीर्घश्चाभ्यासस्य ।।उ० ४ ।५५ ॥ इति दिवः क्विन्प्रत्ययो द्वित्वाभ्यासदीर्घौ च (वर्धमानन्) हानिरहितम् (स्वे) स्वकीये (दमे) दाम्यन्त्युपशाम्यन्ति यस्मिंस्तस्मिन्स्वस्थाने परमोत्कृष्टे प्राप्तुमर्हे पदे ।। अयं मंत्रः शत० २ ।३ ।२ ।२९ व्याख्यातः ॥ २३ ॥
Essence
भावार्थ:- अत्र श्लेषालङ्कारः ॥ नमः, भरन्तः, धिया, उप, आ, इमसि, इत्येतेषां षण्णां पदानां पूर्वस्मान्मन्त्रादनुवृत्तिर्विज्ञेया ।

[वयं......ऋतस्य  दीदिविं......जगदीश्वरमुपैमसि=नित्यमुपाप्नुमः, येन परमात्मना......ऋतस्य [दीदिविम्]=दीदिविः.....अग्निः प्रकाशितस्तं नमो भरन्तो वयं धियोपैमसि=नित्यमुपाप्नुभ:]

 परमेश्वरोऽनादिस्वरूपस्य कारणस्य सकाशात् सर्वाणि कार्याणि रचयति, भौतिकोऽग्निश्च जलस्य प्रापणेन सर्वान् व्यवहारान् साधयतीति वेद्यम् ।।३ ।२३ ।।
Subject
पुनरीश्वराग्निगुणा उपदिश्यन्ते ॥
Meaning of Anvay
नमः अन्नं भरन्तो धारयन्तो वयं धिया कर्मणा प्रज्ञया वा अध्वराणाम् अग्निहोत्राद्यश्वमेधान्तानां यज्ञानां गोपाम् इन्द्रियपश्वादीनां रक्षकं राजन्तं प्रकाशमानम् ऋतस्य अनादिस्वरूपस्य सत्यस्य कारणस्य दीदिविम् व्यवहारयन्तं स्वे स्वकीये दमे दाम्यन्त्युपशाम्यन्ति यस्मिंस्तस्मिन् स्वस्थाने परमोत्कृष्टे प्राप्तुमर्हे पदे वर्धमानं हानिरहितं जगदीश्वमुपैमासि=नित्यमुपाप्नुमः=इत्येकः।।

 येन परमात्मनाsध्वराणां शिल्पविद्यासाध्यानां सर्वथा रक्ष्याणां यज्ञानां [गोपाम्]=गोपा इन्द्रियपश्वादीनां रक्षकः [राजन्तम्] राजन् प्रकाशमान ऋतस्य जलस्य [दीदिविम्]=दीदिविः व्यवहारन् स्वे स्वकीये दमे= शान्तस्वरूपे वर्धमानः हानिरहितःअग्निः प्रकाशितोऽस्ति तं नमः अन्नं भरन्तो धारयन्तो वयं धिया कर्मणा प्रज्ञया वा उपैमसि=नित्यमुपाप्नुम इति द्वितीयः ॥ ३ ॥ २३ ॥

[ पदानामनुवृत्तिमाह --]
Meaning of Essence
भा० पदार्थ:--ऋतस्य=अनादिस्वरूपस्य कारणस्य । दीदिविम्=सर्वं कार्यम् (व्यवहारयोग्यम्), सर्वव्यवहारम् ॥
Special
वैश्वामित्रो मधुच्छन्दाः । अग्नि:=ईश्वरो भौतिकश्च ॥ गायत्री षड्जः ।।