Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 22

63 Mantra
3/22
Devata- अग्निर्देवता Rishi- वैश्वामित्रो मधुच्छन्दा ऋषिः Chhand- भूरिक् आसुरी गायत्री,गायत्री, Swara- षड्जः
Mantra with Swara
स॒ꣳहि॒तासि॑ विश्वरू॒प्यूर्जा मावि॑श गौप॒त्येन॑। उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम्। नमो॒ भर॑न्त॒ऽएम॑सि॥२२॥

स॒ꣳहि॒तेति॑ सम्ऽहि॒ता। अ॒सि॒। वि॒श्व॒रू॒पीति॑ विश्वऽरू॒पी। ऊ॒र्जा। मा॒। आ। वि॒श॒। गौ॒प॒त्येन॑। उप॑। त्वा॒। अ॒ग्ने॒। दि॒वेदि॑व॒ इति॑ दि॒वेदि॑वे। दो॑षावस्त॒रिति॒ दोषा॑ऽवस्तः। धि॒या। व॒यम्। नमः॑। भर॑न्तः। आ। इ॒म॒सि॒ ॥२२॥

Mantra without Swara
सँहितासि विश्वरूप्यूर्जा माविश गौपत्येन । उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्तऽएमसि ॥

सꣳहितेति सम्ऽहिता। असि। विश्वरूपीति विश्वऽरूपी। ऊर्जा। मा। आ। विश। गौपत्येन। उप। त्वा। अग्ने। दिवेदिव इति दिवेदिवे। दोषावस्तरिति दोषाऽवस्तः। धिया। वयम्। नमः। भरन्तः। आ। इमसि॥२२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(संहिता) सर्वपदार्थैः सह वर्तमाना विद्युत्, सर्वव्यापक ईश्वरो वा (असि) अस्ति वा। अत्र सर्वत्र पक्षे व्यत्ययः (विश्वरूपी) विश्वं=सर्वं रूपं यस्याः सा । अत्र जातेरस्त्रीविषयादयोपधात् । अ॰ ४ । १ । ६३ ।। इति ङीष् प्रत्ययः (ऊर्जा) वेगपराक्रमादिगुणयुक्ता (मा) माम् (आ) समन्तात् (विश) विशति (गौपत्येन) गवामिन्द्रियाणां पशूनां वा पतिः=पालकस्तस्य भावः कर्म वा तेन । अत्र पत्यन्तपुरोहितादिभ्यो यक् ॥ अ॰ ५ । १ । १२८॥ इति यक् प्रत्ययः ( उप) उपगमेऽर्थे (त्वा) त्वाम् (अग्ने) अग्निः (दिवेदिवे) ज्ञानस्य प्रकाशाय प्रकाशाय । दिवेदिव इत्यहर्नामसु पठितम् ॥ निघं० १ । ९ ॥ (दोषावस्तः) दोषांरात्रिं वस्ते=स्वतेजसाऽऽछाद्य निवारयति सोग्निः । दोषेति रात्रिनामसु पठितम् ॥ निघं० १ । ७ ॥ (धिया) कर्मणा प्रज्ञया वा । धीरिति कर्मनामसु पठितम् ॥ निघं० २ ॥ १ ॥ प्रज्ञानामसु वा ॥ निघं० ३ ।९॥ (वयम् ) क्रियाकांडानुष्ठातार: (नमः) अन्नम् । नम इत्यन्ननामसु पठितम् ।।निघं० २ ।७ ॥ (भरन्तः) धारयन्तः (आ) समन्तात् ( इमसि) प्राप्नुमः। अत्रेदन्तो मसीतीकारादेशः॥ अयं मंत्रः शत० २।३।२।२७-२८ व्याख्यातः॥ २२ ॥
Essence
मनुष्यैरित्थं  वेदितव्यं--येनेश्वेरण सर्वत्र मूर्त्तद्रव्येषु विद्युद्रुपो व्याप्तः सर्वरूपप्रकाशश्चेष्टादिव्यवहार- हेतुर्विचित्रगुणोऽग्निर्निमितस्तस्यैवोपासनं नित्यं कार्यमिति ॥ ३ ॥ २२ ॥
Subject
अथाग्निशब्देन विद्युत्कर्माण्युपदिश्यन्ते।
Meaning of Anvay
 नमः=अन्नं भरन्तः धारयन्तः सन्तो वयं क्रियाकाण्डानुष्ठातारः धिया कर्मणा प्रज्ञया वा [अग्ने] = योऽग्निर्विद्युद्रूपेण सर्वेषु पदार्थेषु संहिता सर्वपदार्थैः सह वर्त्तमाना विद्युत् सर्वव्यापक ईश्वरो वा [असि] अस्ति वा (ऊर्जा) वेगपराक्रमादि गुणयुक्ता विश्वरूपी विश्वं=सर्वं रूपं यस्याः सा गौपत्येन गवामिन्द्रियाणां पशूनां वा पतिः=पालकस्तस्य भावः कर्म वा तेन मा=मां विश=प्रविशति ।

त्वा ( त्वां ) अग्ने=तं [दोषावस्तः]=दोषावस्तारमग्निं दोषां=रात्रिं वस्ते स्वतेजसाऽऽछाद्य निवारयति सोऽग्निः [त्तं] दिवे दिवे=प्रतिदिनं ज्ञानस्य प्रकाशाय प्रकाशाय उपैमसि उपगम्य समन्तात् प्राप्नुमः ।। ३ । २२ ।।

[ [अग्ने]=योऽग्निविद्युद्रूपेण सर्वेषु पदार्थेषु संहिता.... विश्वरूपी गौपत्येन मा--मां विश=प्रविशति ]
Meaning of Essence
भा० पदार्थ:--अग्ने [अग्निः]=सर्वत्र मूर्त्तद्रव्येषु विद्युद्रूपो व्याप्तः सर्वप्रकाशः । गौपत्येन=चेष्टादिव्यवहारहेतुना ।
Special
वैश्वामित्रो मधुच्छन्दाः । अग्निः= विद्युत्। पूर्वार्द्धस्य भुरिगासुरी गायत्री, उपत्वेत्य तस्य गायत्री च छन्दः । षड्जः ॥