Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 21

63 Mantra
3/21
Devata- विश्वेदेवा देवताः Rishi- याज्ञवल्क्यः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑व॒स्मिन् गो॒ष्ठेऽस्मिँल्लो॒केऽस्मिन् क्षये॑। इ॒हैव स्त॒ माप॑गात॥२१॥

रेव॑तीः। रम॑ध्वम्। अ॒स्मिन्। योनौ॑। अ॒स्मिन्। गो॒ष्ठे। गो॒स्थ इति॑ गो॒ऽस्थे॑। अ॒स्मिन्। लो॒के। अ॒स्मिन्। क्षये॑। इ॒ह। ए॒व। स्त॒। मा। अप॑। गा॒त॒ ॥२१॥

Mantra without Swara
रेवती रमध्वमस्मिन्योनावस्मिन्गोष्ठे स्मिँल्लोके स्मिन्क्षये । इहैव स्त मापगात ॥

रेवतीः। रमध्वम्। अस्मिन्। योनौ। अस्मिन्। गोष्ठे। गोस्थ इति गोऽस्थे। अस्मिन्। लोके। अस्मिन्। क्षये। इह। एव। स्त। मा। अप। गात॥२१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(रेवतीः) विद्याधनसहिताः प्रशस्ता नीतयो गाव इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः । अत्र सुपां सुलुगिति पूर्वसवर्णादेशः प्रशंसार्थे मतुप् च (रमध्वम्) रमणं कुर्वन्तु । अत्र व्यत्ययः (अस्मिन्) प्रत्यक्षे (योनौ) जन्मनि स्थले वा (अस्मिन्) समक्षे ( गोष्ठे) गाव:=पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन् (अस्मिन्) सेव्यमाने (लोके) संसारे (अस्मिन्) अस्माभिः संपादिते (क्षये) निवसनीये गृहे (इह) एतेषु (एव) अवधारणार्थे (स्त) सन्ति । अत्र व्यत्ययो लडर्थे लोट् च (मा) निषेधे (अप) दूरार्थ (गात) गच्छन्तु । अत्र लोडर्थे लुङ् पुरुषव्यत्ययश्च ॥ अयं मंत्रः शत० २ ।३ ।२ ।२६ व्याख्यातः ॥ २१ ॥
Essence
यत्र विद्वांसो निवसन्ति तत्र विद्यादीनां गुणानां निवासात् प्रजाविद्यासुशिक्षाधनवत्यो भूत्वा नित्यं सुखेन सह युञ्जते, तस्मात् सर्वैरेवमिच्छा कार्या--

[एतेभ्यो मापगात=कदाचिद् दूरं मा गच्छन्तु ]

अस्माकं सङ्गसमीपाद् विद्वांसो, विदुषां समीपाच्च वयं कदाचिद् दूरे मा भवेमेति ।। ३ । २१ ।।
Subject
अथ विदुषां सत्कारायोपदिश्यते ॥
Meaning of Anvay
हे मनुष्याः! प्रशस्ता नीत्यादियो रेवतीः=रेवत्यः विद्याधनसहिताः प्रशस्ता नीतयो, गावः= इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः, ता अस्मिन् प्रत्यक्षे योनौ जन्मनि स्थले वा, अस्मिन् समक्षे गोष्ठे गाव:=पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन्, अस्मिन् सेव्यमाने लोके संसारे, अस्मिन् अस्माभिः सम्पादिते क्षये निवसनीये गृहे, रमध्वम्=रमन्तां रमणं कुर्वन्तु, इतीच्छन्तो भवन्त इह एतेवेव नित्यं [स्त]=प्रवर्तन्ताम् ।

किन्त्वेतेभ्यो मापगात=कदाचिद् दूरं मा गच्छन्तु ।।३ ।२१ ॥

[ हे मनुष्याः! प्रशस्ता नीत्यादयो रेवती:=रेवत्यः.....रमध्वं=रमन्तामितीच्छन्तो भवन्त इह=एतेष्वेव नित्यं [स्त]=प्रवर्तन्ताम् ]
Meaning of Essence
भा॰ पदार्थः-रेवतीः=विद्यासुशिक्षाधनवत्यः प्रजाः । रमध्वम्=नित्यं सुखेन सह युऽङ्गध्वम् । अपगात=दूरे भवत ॥
Special
याज्ञवल्क्यः । विश्वेदेवाः=विद्वांसः॥ उष्णिक् ।ऋषभः ।।