Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 20

63 Mantra
3/20
Devata- आपो देवता Rishi- याज्ञवल्क्यः Chhand- भूरिक् बृहती, Swara- मध्यमः
Mantra with Swara
अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय॥२०॥

अन्धः॑। स्थ॒। अन्धः॑। वः॒। भ॒क्षी॒य॒। महः॑। स्थ॒। महः॑। वः॒। भ॒क्षी॒य॒। ऊ॒र्जः॑। स्थ॒। ऊर्ज्ज॑म्। वः॒। भ॒क्षी॒य॒। रा॒यः। पोषः॑। स्थ॒। रा॒यः। पोष॑म्। वः॒। भ॒क्षी॒य॒ ॥२०॥

Mantra without Swara
अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जँवो भक्षीय रायस्पोष स्थ रायस्पोषँवो भक्षीय ॥

अन्धः। स्थ। अन्धः। वः। भक्षीय। महः। स्थ। महः। वः। भक्षीय। ऊर्जः। स्थ। ऊर्ज्जम्। वः। भक्षीय। रायः। पोषः। स्थ। रायः। पोषम्। वः। भक्षीय॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अन्धः) अन्नम्। अन्ध इत्यन्ननामसु पठितम् ॥ नि० २ ॥ ७ ॥ अदेर्नुम् धौ च ॥ उ० ४ । २०६ ।। अनेनाऽदेरसुन्प्रत्ययो नुमागमो धकारादेशश्च वा शर्प्रकरणे खर्परे लोपो वक्तव्य इति विसर्जनीयलोपः (स्थ) सन्ति । अत्र सर्वत्र व्यत्ययः (अन्ध:) प्राप्तुं योग्यो रसः । अंध इति पदनामसु पठितम् ॥ निघं० ४ ॥ २ ॥ अनेन प्राप्तव्यो रसो गृह्यते (व:) सर्वेषामोषध्यादिपदार्थानाम् (भक्षीय) सेवेय (महः) महांसि ( स्थ) सन्ति (महः) महागुणसमूहम् (व:) महतां पदार्थानाम् (भक्षीय) स्वीकुर्याम् (ऊर्ज:) पराक्रमः (स्थ) सन्ति (ऊर्जम्) पराक्रमम् (वः) बलवतां पदार्थानाम् (भक्षीय) सेवेय (रायस्पोषः) या बहुगुणभोगेन पुष्टयः । भूमा वै रायस्पोषः ॥ शत० ३ ।१ ।१ ।१२ ॥ (स्थ) सन्ति (रायस्पोषम् ) उत्तमानां धनानां भोगम् (व:) चक्रवर्त्तिराज्यश्रियादिपदार्थानाम् (भक्षीय) अद्याम् ॥ अयं मंत्रः शत० २ । ३। ४। २५ व्याख्यातः ।। २० ।।
Essence
मनुष्यैर्जगत्स्थानां पदार्थानां गुणज्ञानपुरःसरं क्रियाकौशलेनोपकारं संगृह्य सर्वं सुखं भोक्तव्यमिति ॥ ३ ॥ २० ॥
Subject
अथ यज्ञेन कृतशुद्धय ओषध्यादयः पदार्था उपदिश्यन्ते ॥
Meaning of Anvay
येऽन्धःस्थ, अन्धः (अन्नम्) वीर्यवन्तो वृक्षौषध्यादयः पदार्थाः, [स्थ] सन्ति वः=तेषां सर्वेषामोषध्यादिपदार्थानां सकाशादहमन्धः=वीर्यकराण्यन्नानि (प्राप्तुं योग्यं रसं) भक्षीय=स्वीकुर्य्या सेवेय।

ये महः स्थ; महो=महान्तो वाय्वग्न्यादयो विद्यादयो वा [स्थ] सन्ति, वः=तेषां महतां पदार्थानां सकाशात् [महः]=महांसि क्रियासिद्धिकराणि महागुणसमूहम् अहं भक्षीय स्वीकुर्याम् ।

य ऊर्जः स्थ; ऊर्ज्जं पराक्रमं रसावन्तो जलदुग्धघृतमधुफलादयः [स्थ] सन्ति वः=तेषां बलवतां पदार्थानां सकाशादूर्जं=रसं पराक्रमम् अहं भक्षीय=भुञ्जीय सेवेय ।

ये रायस्पोष: स्थ, रायस्पोषो (या बहुगुणभोगेन पुष्टयः) बहुगुणसमूहयुक्ताः पदार्थाः [स्थ] सन्ति वः=तेषां चक्रवर्त्तिराज्यश्रियादिपदार्थानां सकाशादहं रायस्पोषं=बहुशुभगुणैः पोषम् उत्तमानां धनानां भोगं भक्षीय=सेवेय ।। ३ । २० ।।

[येऽन्धः स्थ, अन्धः=वीर्यवन्तो वृक्षौषध्यादयः पदार्धा: [स्थः]  सन्ति, वः=तेषां  सकाशादहमन्धः= वीर्यकराण्यन्नानि भक्षीय=स्वीकुर्या॑म्]
Special
याज्ञवल्क्यः । आपौ=औषध्यादिपदार्थाः । भुरिग्बृहती। मध्यमः ।।