Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 2

63 Mantra
3/2
Devata- अग्निर्देवता Rishi- सुश्रुत ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन। अ॒ग्नये॑ जा॒तवे॑दसे॥२॥

सुस॑मिद्धा॒येति सुऽस॑मिद्धाय। शो॒चिषे॑। घृ॒तम्। ती॒व्रम्। जु॒हो॒त॒न॒। अ॒ग्नये॑। जा॒तवे॑दस॒ इति॑ जा॒तऽवे॑दसे ॥२॥

Mantra without Swara
सुसमिद्धाय शोचिषे घृतन्तीव्रं जुहोतन । अग्नये जातवेदसे ॥

सुसमिद्धायेति सुऽसमिद्धाय। शोचिषे। घृतम्। तीव्रम्। जुहोतन। अग्नये। जातवेदस इति जातऽवेदसे॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सुसमिद्धाय) सुष्ठु सम्यगिद्धो=दीप्तस्तस्मिन् । अत्र सर्वत्र सुपां सुलुगिति सप्तमीस्थाने चतुर्थी (शोचिषे) शोधिते=दोषनिवारके (घृतम्) आज्यादिकम् (तीव्रम्) सर्वदोषाणां निवारणे तीक्ष्णस्वभावम् (जुहोतन) प्रक्षिपत । सिद्धिरस्य पूर्ववत् (अग्नये) रूपदाहप्रकाशच्छेदनादिगुणस्वभावे (जातवेदसे) जाते जाते = उत्पन्ने उत्पन्ने पदार्थे विद्यमानस्तस्मिन् । जाते जाते विद्यत इति वा । जातवित्तो वा जातधनो जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशून् विन्दतेति तज्जातवेदसो जातवेदस्त्वमिति ॥ निरु० ७ । १६ ॥ २ ॥
Essence
[हे मनुष्याः ! यूयं सुसमिद्धाय = सुसमिद्धे....अग्नये=अग्नौ... तीव्रं घृतं जुहोतन]

भावार्थ:- मनुष्यैरस्मिन् प्रदीप्तेऽग्नौ शीघ्रं दोषनिवारकाणि शोधितानि द्रव्याणि प्रक्षिप्य सुखानि साधनीयानीति ॥ ३ ॥ २ ॥
Subject
पुनः स कीदृशः कथमुपयोजनीयश्चेत्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्याः! यूयं सुसमिद्धाय=सुसमिद्धे सुष्ठु सम्यगिद्धो दीप्तक्तास्मिन् शोचिषे=शोचिषि शोधिते दोषनिवारके जातवेदसे=जातवेदसि जाते जाते=उत्पन्ने उत्पन्ने पदार्थे विद्यमानस्तस्मिन्, अग्नये=अग्नौ रूपदाहप्रकाशच्छेदनादिगुणस्वभावे तीव्रं सर्वदोषाणां निवारणे तीक्ष्णस्वभावं घृतम् आज्यादिकं जुहोतन प्रक्षिपत ॥ ३ ॥२॥
Meaning of Essence
भा० पदार्थ:-सुसमिद्धाय=प्रदीप्ताय । तीव्रम्=शीघ्रं दोषनिवारकम् । घृतम्=शोधितं द्रव्यम् ॥
Special
सुश्रुतः । अग्निः=भौतिकोऽग्निः। गायत्री । षड्जः ॥