Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 19

63 Mantra
3/19
Devata- अग्निर्देवता Rishi- अवत्सार ऋषिः Chhand- जगती, Swara- निषादः
Mantra with Swara
सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च्च॑सागथाः॒ समृषी॑णा स्तु॒तेन॑। सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ संꣳरा॒यस्पोषे॑ण ग्मिषीय॥१९॥

सम्। त्वम्। अ॒ग्ने॒। सूर्य्य॑स्य। वर्च॑सा। अ॒ग॒थाः॒। सम्। ऋषी॑णाम्। स्तु॒तेन॑। सम्। प्रि॒येण॑। धाम्ना॑। सम्। अ॒हम्। आयु॑षा। सम्। वर्च॑सा। सम्। प्र॒जयेति॑ प्र॒ऽजया॑। सम्। रा॒यः। पोषे॑ण। ग्मि॒षी॒य॒ ॥१९॥

Mantra without Swara
सन्त्वमग्ने सूर्यस्य वर्चसागथाः समृषीणाँ स्तुतेन । सम्प्रियेण धाम्ना समहमायुषा सँवर्चसा सम्प्रजया सँ रायस्पोषेण ग्मिषीय ॥

सम्। त्वम्। अग्ने। सूर्य्यस्य। वर्चसा। अगथाः। सम्। ऋषीणाम्। स्तुतेन। सम्। प्रियेण। धाम्ना। सम्। अहम्। आयुषा। सम्। वर्चसा। सम्। प्रजयेति प्रऽजया। सम्। रायः। पोषेण। ग्मिषीय॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) समागमे (त्वम्) परमेश्वरोऽयं भौतिको वा (अग्ने) विज्ञानस्वरूपं व्यवहारप्राप्तिहेतुर्वा (सूर्य्यस्य) सर्वान्तर्गतस्य प्राणस्य सूर्यलोकस्य वा (वर्च्चसा) दीप्त्या (अगथा:) गच्छसि प्राप्नोति वा । अत्र सर्वत्र पक्षे व्यत्ययः । वर्तमाने लुङ् । मंत्रे घसह्वरणश० ॥ अ० २।४।८० ॥ इति च्लेर्लुक च (सम्) संगतार्थे (ऋषीणाम्) वेदविदां मन्त्रद्रष्टृणां विदुषाम् (स्तुतेन) प्रशंसितेन (सम्) एकीभावे (प्रियेण) प्रसन्नताकारकेण (धाम्ना) स्थानेन (सम्) समीचीनार्थे (अहम्) जीव: (आयुषा) जीवनेन (सम्) संगत्यर्थे (वर्चसा) विद्याध्ययनप्रकाशनेन (सम्) श्रैष्ठ्यार्थे (प्रजया) संतानेन राज्येन वा (सम्) प्रशस्तार्थे (रायस्पोषेण) रायो=धनानां भोगपुष्ट्या (ग्मिषीय) प्राप्नुयाम् । अत्राशिषि लिङि वा छन्दसि सर्वे विधयो भवन्तीडागमः । गमहनजन० ॥ अ॰ ६ ।४। ९८॥ इत्युपधालोपश्च ॥ अयं मंत्रः शत० २ ।३ ।२ ।२४ व्याख्यातः ॥ १९॥
Essence
अत्र श्लेषालङ्कारः॥ मनुष्या ईश्वररस्याज्ञापालनेन, सम्यक् पुरुषार्थेनाग्न्यादिपदार्थानां संप्रयोगेणैतत्सर्वं सुखं प्राप्नुवन्तीति ॥ ३ । १९ ।।
Subject
पुनस्तौ कीदृशावित्युपदिश्यते ॥
Meaning of Anvay
हे अग्ने=जगदीश्वर ! विज्ञानस्वरूप ! यस्त्वं परमेश्वरः सूर्यस्य=प्राणस्य सर्वान्तर्गतस्य प्राणस्य ऋषीणां वेद-विदां मन्त्रद्रष्टृणां विदुषां येन संस्तुतेन सङ्गतं प्रशंसितेन सम्प्रियेण एकीभावेन प्रसन्नताकारकेरण संवर्चसा सङ्गतं विद्याध्ययनप्रकाशनेन धाम्ना स्थानेन समायुषा समीचीनेन जीवनेन संप्रजया श्रेष्ठेन सन्तानेन संरायस्पोषेण प्रशस्तानां रायो=धनानां भोगपुष्ट्या सह समगथाः समागमं गच्छसि तेनैवाहम् जीव: अपि सर्वाणि सुखानि संग्मिषीय=सम्यक् प्राप्नुयामित्येकः॥

यः [अग्ने]=अग्निः व्यवहारप्राप्तिहेतुः सूर्यस्य=प्रत्यक्षस्य सवितृमण्डलस्य सूर्यलोकस्य ऋषीणां वेदविदां मन्त्रद्रष्टृणां विदुषां संस्तुतेन संगतं प्रशंसितेन सम्प्रियेण एकीभावेन प्रसन्नताकारकेण संवर्चसा दीप्त्या धाम्ना स्थानेन समायुषा समीचीनेन जीवनेन संप्रजया श्रेष्ठराज्येन संरायस्पोषेण प्रशस्तानां रायो धनानां भोगपुष्टया समगथा:=सङ्गतो भूत्वा राजते तेन संसाधितेनाहं जीवः सर्वाणि व्यवहारसुखानि संग्मिषीय=सम्यक् प्राप्नुयामिति द्वितीयः ।। ३ । १९ ।।

[ हे अग्ने=जगदीश्वर! यस्त्वं सूर्यस्य=प्राणस्य.....येन संस्तुतेन......सह समगथास्तेनैवाहमपि सर्वाणि संग्मिषीय, यः [अग्ने]=अग्निः.....समगथाः=संगतो भूत्वा राजते तेन संसाधितेनाहं सर्वाणि व्यवहारसुखानि संग्मिषीय]
Special
अवत्सारः । अग्निः=ईश्वरो भौतिकश्च ॥ जगती । निषादः ॥