Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 18

63 Mantra
3/18
Devata- अग्निर्देवता Rishi- अवत्सार ऋषिः Chhand- निचृत् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
इन्धाना॑स्त्वा श॒तꣳ हिमा॑ द्यु॒मन्त॒ꣳ समि॑धीमहि। वय॑स्वन्तो वय॒स्कृत॒ꣳ सह॑स्वन्तः सह॒स्कृत॑म्। अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ऽअदा॑भ्यम्। चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय॥१८॥

इन्धा॑नाः। त्वा॒। श॒तम्। हिमाः॑। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॑म्। सम्। इ॒धी॒म॒हि॒। वय॑स्वन्तः। व॒य॒स्कृत॑म्। व॒य॒स्कृत॒मिति॑ वयः॒ऽकृत॑म्। सह॑स्वन्तः। स॒ह॒स्कृत॑म्। स॒ह॒स्कृत॒मिति॑ सहः॒ऽकृत॑म्। अग्ने॑। स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न॒ऽदम्भ॑नम्। अद॑ब्धासः। अदा॑भ्यम्। चित्रा॑वसो। चि॑त्रवसो॒ऽइति॒ चित्र॑ऽवसो। स्व॒स्ति। ते। पा॒रम्। अ॒शी॒य॒ ॥१८॥

Mantra without Swara
इन्धानास्त्वा शतँ हिमा द्युमन्तँँ समिधीमहि । वयस्वन्तो वयस्कृतँँ सहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भनमदब्धासोऽअदाभ्यम् । चित्रावसो स्वस्ति ते पारमशीय ॥

इन्धानाः। त्वा। शतम्। हिमाः। द्युमन्तमिति द्युऽमन्तम्। सम्। इधीमहि। वयस्वन्तः। वयस्कृतम्। वयस्कृतमिति वयःऽकृतम्। सहस्वन्तः। सहस्कृतम्। सहस्कृतमिति सहःऽकृतम्। अग्ने। सपत्नदम्भनमिति सपत्नऽदम्भनम्। अदब्धासः। अदाभ्यम्। चित्रावसो। चित्रवसोऽइति चित्रऽवसो। स्वस्ति। ते। पारम्। अशीय॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्धानाः) प्रकाशयन्तः (त्वा) त्वामनन्तगुणं जगदीश्वरं प्रकाशादिगुणवन्तं भौतिकं वा (शतम्) शतसंख्याकान्संवत्सरानधिकं वा (हिमाः) हेमन्तर्तुयुक्तानि वर्षाणि। शतं हिमाः शतं वर्षाणि जीव्यास्म ॥ शत० २ ।३ ।२ ।२१ ॥ (द्युमन्तम् ) द्यौरनन्तः प्रकाशो विद्यते यस्मिन्परमेश्वरे वा प्रशस्तः प्रकाशो विद्यते यस्मिन्भौतिके तम् । अत्र भूम्न्यर्थे प्रशंसार्थे च मतुप् (सम्) सम्यगर्थे (इधीमहि ) जीवेम वा (वयस्वन्तः) प्रशस्तं पूर्णमायुर्विद्यते येषां ते। अत्र प्रशंसार्थे मतुप् (वयस्कृतम्) यो वयः करोति तम् (सहस्वन्तः) सहनं=सहो विद्यते येषां ते । अत्र भूम्न्यर्थे मतुप् (सहस्कृतम्) यः सहः=सहनं करोति कारयति वा तम् (अग्ने) विज्ञातरीश्वर कार्यप्रापकोऽग्निर्वा (सपत्नदम्भनम् ) यः सपत्नान् दम्भयतीतिम् (अदब्धासः) दम्भाहंकाररहिताः, अनुपहिंसिताः । हिनस्ति दभ्नोतीति वधकर्मसु पठितम् ॥ निघं॰ २ । १९ ।। अत्राज्जसेरसुगित्यसुगागम: (अदाभ्यम्) अहिंसनीयम् (चित्रावसो) चित्रमद्भुतं वसु=धनं विद्यते यस्मिंस्तत्संबुद्धावीश्वर, चित्राणि वसूनि=धनानि यस्माद्वा स भौतिकः। अत्रान्येषामपीति दीर्घः (स्वस्ति) प्राप्तव्यं सुखम् । स्वस्तीति पदनामसु पठितम् ॥ निघं० ५। ५ ।।अनेन प्राप्तव्यं सुखं गृह्यते (ते) तव तस्य वा (पारम्) सर्वदुःखेभ्यः पृथग्भूतम् (अशीय) प्राप्नुयाम् ॥ १८ ।।
Essence
अत्र श्लेषालङ्कारः ॥ मनुष्यैः पुरुषार्थेनेश्वरोपासनयाऽग्न्यादिपदार्थेभ्य उपकारकरणेन च सर्वदुःखान्तं गत्वा परं सुखं प्राप्य शतवर्षपर्यन्तं जीवितव्यम् ।

[तात्पर्यमाह--]


न च केनाप्येकक्षणमप्यालस्ये स्थातव्यम्, किन्तु यथा पुरुषार्थो वर्द्धेत तथैवानुष्ठातव्यमिति ॥ ३ । १८ ।।
Subject
पुनस्तावेवोपदिश्येते ।।
Meaning of Anvay
हे चित्रावसो ! चित्रमद्भुतं वसु=धनं विद्यते यस्मिँस्तत् सम्बुद्धावीश्वर अग्ने=जगदीश्वर ! विज्ञातरीश्वर ! अदब्धासः दाम्भाहंकाररहिता=अनुपहिंसिताः वयस्वन्तः प्रशस्तं पूर्णमायुर्विद्यते येषां ते सहस्वन्तः सहनम्=सहो विद्यते येषां ते अदाभ्यम् अहिंसनीयं सपत्नदम्भनं यः सपत्नान् दम्भयतीति तं वयस्कृतं यो वयः करोति तं सहस्कृतं यः सहः=सहनं करोति तं द्युमन्तं द्यौरनन्तः प्रकाशो विद्यते यस्मिन् परमेश्वरे तं त्वा त्वामनन्तगुणं जगदीश्वरम् इन्धाना: प्रकाशयन्तः सन्तो वयं शतं शतसंख्याकान्संवत्सरानधिकं वा हिमाः हेमन्तर्तुयुक्तानि वर्षाणि समिधीमहि=प्रकाशयेम=जीवेम सम्यक्तया जीवेम ।

एवं कुर्वन्नहमपि यत् ते=तव कृपया [पारम्]=सर्वदुखेभ्यः पारं सर्वदुःखेभ्यः पृथग्भूतं गत्वास्वस्ति प्राप्तव्यं सुखम् अशीय=प्राप्नुयामित्येकः ॥

अदब्धास: दम्भाहंकाररहिता:=अनुपहिंसिता वयस्वन्तः प्रशस्तं पूर्णमायुर्विद्यते येषां ते सहस्वन्तः सहनं सहो विद्यते येषां ते त्वा=तं प्रकाशादिगुणवन्तं भौतिकम् अदाभ्यम् अहिंसनीयं सपत्नदम्भनं यः सपत्नान् दम्भयतीति तं वयस्कृतं यो वयः करोति तं सहस्कृतं यः सः=सहनं कारयति तं [द्युमन्तम्]=प्रशस्तः प्रकाशो विद्यते यस्मिन् भौतिके तम् अग्ने=अग्निं कार्यप्रापकमग्निं नित्यमिन्धानाः=प्रदीपयन्तः प्रकाशयन्तः वयं शतं हिमा शतं वर्षाणि (शतम्=शतसंख्याकान्संवत्सरानधिकं वा हिमा:=हेमन्तर्तुयुक्तानि वर्षाणि) समिधीमहि ] सम्यग् जीवेमैवं कुर्वन्नहमपि योऽयं चित्रावसो=चित्रावसुरग्निस्ते=तस्य सकाशात् [पारम्]=दारिद्र्यादिदुःखेभ्यः पारं गत्वा स्वस्ति=सुखमशीय=प्राप्नुयामिति द्वितीयः ॥ ३ ॥ १८ ॥

[ हे.....अग्ने=जगदीश्वर !...... त्वेन्धानाः सन्तो वयं शतं हिमाः समिधीमहि=प्रकाशयेम=जीवेम....ते=तव कृपया [पारम्]=सर्वदुःखेभ्यः पारं गत्वा स्वस्त्यशीम=प्राप्नुयाम्]
Special
अवत्सारः ।अग्निः=ईश्वरो भौतिकश्च ॥ निचृद्ब्राह्मी पंक्तिः । पञ्चमः ॥