Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 17

63 Mantra
3/17
Devata- अग्निर्देवता Rishi- अवत्सार ऋषिः Chhand- त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
त॒नू॒पाऽअ॑ग्नेऽसि त॒न्वं मे पाह्यायु॑र्दाऽअ॑ग्ने॒ऽस्यायु॑र्मे देहि वर्चो॒दाऽअ॑ग्नेऽसि॒ वर्चो॑ मे देहि। अग्ने॒ यन्मे॑ त॒न्वाऽऊ॒नं तन्म॒ऽआपृ॑ण॥१७॥

त॒नू॒पा इति॑ तनू॒ऽपाः। अ॒ग्ने॒। अ॒सि॒। त॒न्व᳖म्। मे॒। पा॒हि॒। आ॒यु॒र्दा इत्यायुः॒दाः। अ॒ग्ने॒। अ॒सि॒। आयुः॑। मे॒। दे॒हि॒। व॒र्च्चो॒दा इति॑ वर्च्चः॒ऽदाः। अ॒ग्ने॒। अ॒सि॒। वर्च्चः॑। मे॒। दे॒हि॒। अग्ने॑। यत्। मे॒। त॒न्वाः᳖ ऊ॒नम्। तत्। मे॒। आ। पृ॒ण॒ ॥१७॥

Mantra without Swara
तनूपाऽअग्नेसि तन्वम्मे पाह्यायुर्दा अग्ने स्यायुर्मे देहि वर्चादाऽअग्ने सि वर्चा मे देहि । अग्ने यन्मे तन्वाऽऊनन्तन्मे आ पृण ॥

तनूपा इति तनूऽपाः। अग्ने। असि। तन्वम्। मे। पाहि। आयुर्दा इत्यायुःदाः। अग्ने। असि। आयुः। मे। देहि। वर्च्चोदा इति वर्च्चःऽदाः। अग्ने। असि। वर्च्चः। मे। देहि। अग्ने। यत्। मे। तन्वाः ऊनम्। तत्। मे। आ। पृण॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तनूपाः) यस्तनूः=सर्वपदार्थदेहान्पाति=रक्षति स जगदीश्वरः, पालनहेतुर्भौतिको वा (अग्ने) सर्वाभिरक्षकेश्वर, रक्षाहेतुर्भौतिको वा (असि) अस्ति वा ।अत्र सर्वत्र पक्षे व्यत्ययः (तन्वम्) शरीरम् । अत्र वाच्छन्दसत्यमिपूर्वं इत्यत्रानुवर्तनात्पूर्वरूपादेशो न भवति (मे) मम (पाहि) पाति वा (आयुर्दा:) आयुः प्रदः अग्ने (असि) भवति वा (आयु:) जीवनम् (मे) मह्यम् (देहि) ददाति वा (वर्च्चोदा:) यो वर्च्चो=विज्ञानं ददातीति तत्प्राप्तिहेतुर्वा (अग्ने) सर्वविद्यामयेश्वर विद्याहेतुर्वा (असि) भवति वा (वर्च्चः) विद्याप्राप्तिं दीप्तिं वा (मे) मह्यम् (देहि) ददाति वा (अग्ने) कामानां प्रपूरकेश्वरकामपूर्तिहेतुर्वा (यत्) यावद्यस्माद्वा (मे) मम (तन्वाः) अंतःकरणाख्यस्य बाह्यस्य शरीरस्य वा (ऊनम्) अपर्याप्तम् (तत्) तावत्तस्माद्वा (मे) मम (आ) समन्तात् (पृण) पूरयति वा ॥ अयं मंत्रः शत० २।३।२।१९-२० व्याख्यातः ।। १७ ।।
Essence
भावार्थ:-- अत्र श्लेषालङ्कारः॥ परमेश्वरेणास्मिञ्जगति यतः सर्वेभ्यः प्राणिभ्यः शरीरायुर्निमित्तविद्याप्रकाश सर्वाङ्गपूर्तिर्निमित्ता, तस्मात् सर्वे पदार्थाः स्वस्वरूपं धारयन्ति,

[अयम् [अग्ने]=अग्निः तनूपा: [असि]=अस्ति...]

तथैवास्य सृष्टौ प्रकाशादिगुणवत्त्वादयमग्निरेतेषां मुख्यः साधकोऽस्तीति सर्वैर्वेदितव्यम् ॥ ३ । १७ ।।
Subject
अथेश्वरभौतिकौ किं कुरुत इत्युपदिश्यते ॥
Meaning of Anvay
 हे अग्ने=जगदीश्वर ! सर्वाभिरक्षकेश्वर ! यद्=यस्मात्त्वं तनूपाः यस्तनूः=सर्वपदार्थदेहान्  पाति=रक्षति स जगदीश्वरः असि, तत्=तस्मात् मे=मम  तन्वं शरीरं पाहि ।

  हे अग्ने ! यद्=यस्मात्त्वमायुर्दाःआयुः प्रदःअसि, तत्=तस्मात् (मे) मह्यम् [आयुः] पूर्णमायुः जीवनं देहि ।

हे अग्ने! सर्वविद्यामयेश्वर ! यत्=यस्मात्त्वं वर्च्चोदाः यो वर्च्चो=विज्ञानं ददातीति असि, तत्=तस्मात् मे=मह्यं वर्च:=पूर्णविद्यां विद्याप्राप्तिं देहि ।

हे अग्ने! कामानां प्रपूरकेश्वर! मे=मम तन्वाः अन्तःकरणाख्यस्य शरीरस्य यद्=यावद्  ऊनम्=बुद्धिबलशौर्यादिकमपर्याप्तमास्ति, तत्=तावद् आपृण=समन्तात् प्रपूरयेत्येकः ॥

अयम् [अग्ने]=अग्निः, रक्षाहेतुभौतिकः यद्=यस्मात् तनूपाः पालनहेतुभौतिक: [असि] अस्ति, तत्=तस्मात् मे=मम जाठररूपेण तन्वं शरीरं पाति ।

यद्=यस्माद् अयम् [अग्ने]=अग्निः आयुर्दा:=आयुर्निमित्तम् [असि[ भवति तत्=तस्मात् मे=मह्यमायुर्ददाति।

यद्=यस्माद् [अग्ने] अग्निर्वर्चोदाः विज्ञानप्राप्तिहेतुः=[असि]=अस्ति तत्=तस्माद् वर्च्चः=दीप्तिं ददाति।

अयम् [अग्ने] अग्निः कामपूर्तिहेतुभौतिकः यद्=यावन्मे=मम   तन्वा: बाह्यस्यशरीरस्य ऊनम्=अपर्याप्तं, तत्=तावद् आपृण=समन्तात्पूरयतीति द्वितीयः ॥ ३ ॥ १७ ॥

[हे अग्ने=जगदीश्वर ! त्वं तनूपा असि...मे=मम तन्वं पाहि, आयुर्दा असि....मह्यम् [आयुः] पूर्णमायुर्देहि, वर्चोदा असि, --मे=मह्यं वर्चः=पूर्णविद्यां देहि, मे=मम तन्वा यद्=यावदूनं....तावदापृण=समन्तात्प्रपूरय ]
Special
अवत्सारः । अग्निः=[ईश्वर और भौतिक अग्नि]। त्रिष्टुप् । धैवतः ।।