Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 16

63 Mantra
3/16
Devata- अग्निर्देवता Rishi- अवत्सार ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
अ॒स्य प्र॒त्नामनु॒ द्युत॑ꣳ शु॒क्रं दु॑दुह्रे॒ऽअह्र॑यः। पयः॑ सहस्र॒सामृषि॑म्॥१६॥

अ॒स्य। प्र॒त्नाम्। अनु॑। द्युत॑म्। शु॒क्रम्। दु॒दु॒ह्रे॒। अह्र॑यः। पयः॑। स॒ह॒स्र॒सामिति॑ सहस्र॒ऽसाम्। ऋषि॑म् ॥१६॥

Mantra without Swara
अस्य प्रत्नामनु द्युतँ शुक्रन्दुदुह्रेऽअह्रयः । पयः सहस्रसामृषिम् ॥

अस्य। प्रत्नाम्। अनु। द्युतम्। शुक्रम्। दुदुह्रे। अह्रयः। पयः। सहस्रसामिति सहस्रऽसाम्। ऋषिम्॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (अस्य) अग्नेः (प्रत्नाम्) अनादिवर्त्तमानां पुराणीमनादिस्वरूपेण नित्याम् । प्रत्नमिति पुराणनामसु पठितम् ।।निघं॰ ३ ।२७ ।।(अनु) पश्चादर्थे (द्युतम्) कारणस्थां दीप्तिम् । अत्र द्युतदीप्तावित्यस्मात् क्विप् प्रत्ययः (शुक्रम्) शुद्धं कार्यकरं साधनम् (दुदुह्रे) प्रपूरयन्ति । अत्र वर्तमाने लिट् । इरयोरे ॥ अ० ६ । ४ । ७६ ॥अनेनेरेजित्यस्य स्थाने रे आदेश: (अह्नयः) अह्नवन्ति=व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः । अत्राऽहव्याप्तावित्यस्माद्बाहुलकेनौणादिकः क्रिः प्रत्ययः महीधरेणायं ह्री लज्जायामित्यस्य प्रयोगोऽशुद्ध एव व्याख्यात इति (पयः) जलम् । पय इत्युदकनामसु पठितम् ॥ निघं॰ १ ।१२ ॥ (सहस्रसाम्) या सहस्त्राण्यसंख्यातानि कार्याणि सनोति ताम् (ऋषिम् ) कार्यसिद्धिप्राप्तिहेतुम् । अत्रेगुपधात्कित् ॥ उ० ४ ।१२० । अनेन ऋषी गतावित्यस्माद्धातोरिन्प्रत्ययः ॥ अयं मंत्रः शत० २ । ३ । २ । १५ व्याख्यातः ।। १६ ।।
Essence
मनुष्यैर्यथाग्नेस्स्वगुणसहितस्य कारणरूपेणानादित्वेन नित्यत्वं विज्ञेयमस्ति, तथैवान्येषामपि जगत्स्थानां कार्यद्रव्याणां कारणरूपेणानादित्वं वेदितव्यम् ।

[तात्पर्यमाह--]


एतद्विदित्वैतानग्न्यादीन् पदार्थान् कार्येषूपकृत्य सर्वे व्यवहारा: संसाधनीया इति ॥ ३ । १६ ।।
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
 अह्रयः=विद्वांसः अह्नवन्ति=व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः अस्य=अग्नेः सहस्रसां या सहस्राण्यसंख्यातानि कार्याणि सनोति ताम् ऋषिं कार्यसिद्धिप्राप्तिहेतुं प्रत्नाम् अनादिवर्तमानां पुराणीमनादिस्वरूपेण नित्यां द्युतं कारणस्थां दीप्तिं ज्ञात्वा शुक्रं शुद्धं कार्यकरं साधनं पयः जलं च अनुदुदुह्रे=प्रपूरयन्ति (पश्चात् प्रपूरयन्ति) ।। ३ । १६ ।।

[अह्नयः=विद्वांसोऽस्याग्ने: ......प्रत्नां द्युतं ज्ञात्वा शुक्रं पयश्चानुदुदुह्ने]
Special
अवत्सारः। अग्निः=[भौतिक अग्नि ] ।गायत्री ।षड्जः ।।