Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 15

63 Mantra
3/15
Devata- अग्निर्देवता Rishi- वामदेव ऋषिः Chhand- भूरिक् त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं वि॒शेवि॑शे॥१५॥

अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरुरु॒चुः। वने॑षु। चि॒त्रम्। विभ्व᳕मिति॑ वि॒ऽभ्व॒म्। वि॒शेवि॑श॒ इति॑ वि॒शेऽवि॑शे ॥१५॥

Mantra without Swara
अयमिह प्रथमो धायि धातृभिर्हाता यजिष्ठो अध्वरेष्वीड्यः । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रँविभ्वँविशेविशे ॥

अयम्। इह। प्रथमः। धायि। धातृभिरिति धातृऽभिः। होता। यजिष्ठः। अध्वरेषु। ईड्यः। यम्। अप्नवानः। भृगवः। विरुरुचुरिति विऽरुरुचुः। वनेषु। चित्रम्। विभ्वमिति विऽभ्वम्। विशेविश इति विशेऽविशे॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) ईश्वरो भौतिको वा (इह) अस्यां सृष्टौ (प्रथमः) यज्ञाक्रियायामुपास्य आदिमं साधनं वा (धायि) ध्रियते । अत्र वर्तमाने लुङ्। बहुलं छन्दस्यमाङ्योगेपीत्यड्भाव: (धातृभिः) यज्ञक्रियाधारकैर्विद्वद्भिः (होता) ग्राहक: (यजिष्ठः) अतिशयेनानन्दशिल्पविद्ययोः संगतिहेतुः (अध्वरेषु) उपासनाग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यान्तर्गतेषु वा यज्ञेषु (ईड्यः) उपासितुमध्येषितुं वार्ह: (यम्) उक्तार्थम् (अप्नवानः) येऽप्नान्विद्यासंतानान्कुर्वन्ति ते, अप्न इत्यस्मात्तत्करोति तदाचष्टे ॥ [अ० ३ ।१ ।२६ । अनेन करोत्यर्थे णिच् । ततोन्येभ्योपि दृश्यन्त इति वनिप् ।अप्न इत्यपत्यनामसु पठितम् ॥ निघं० २ ।२ ॥ (भृगव:) यज्ञविद्यावेत्तारः । भृगव इति पदनामसु पठितम् ॥ निघं० ५ ॥ ५ ॥ अनेन ज्ञानवत्त्वं गृह्यते (विरुरुचुः) विदीपयन्ति । अत्र लडर्थे लिट् (वनेषु) संभजनीयेषु (चित्रम्) अद्भुतगुणम् (विभ्वम्) व्यापनशीलम् । अत्र वा छन्दसीत्यनेन पूर्वरूपादेशो न (विशेविशे) प्रतिप्रजाम् ॥ अयं मंत्र: शत० २ ।३ ।२ ।१४ व्याख्यातः ॥ १५ ॥
Essence
भावार्थ:-अत्र श्लेषालङ्कारः ॥ विद्वांसो यज्ञक्रियासिद्ध्यर्थमुपास्यसाधनत्वाभ्यामेतमग्निं स्तुत्वा गृहीत्वा वाऽस्यां सृष्टौ प्रजासुखानि निर्वर्तयेयुरिति ॥ ३ ॥ १५ ॥
Subject
पुनः सोऽग्निः कीदृश इत्युपदिश्यते ।
Meaning of Anvay
अप्नवानः=येऽप्नान्=विद्यासन्तानान्कुर्वन्ति ते भृगवः=विद्वांसः यज्ञविद्यावेत्तारः इह अस्यां सृष्टौ वनेषु सम्भजनीयेषु अध्वरेषु उपासनाग्नि--होत्राद्यश्वमेधान्तेषु शिल्पविद्यान्तर्गतेषु वा यज्ञेषु विशे विशे प्रतिप्रजां विभ्वं व्यापनशीलं चित्रम् अद्भुतगुणं यम् उक्तार्थम् अग्निं विरुरुचुः=विदीपयन्तिसोऽयम् ईश्वरो भौतिको वा धातृभिः यज्ञक्रियाधारकैर्विद्वद्भिः प्रथमः यज्ञक्रियायामुपास्य आदिमं साधनं वा ईड्यः उपासितुमध्येषितुं वार्हः होता ग्राहकः यजिष्ठः अतिशयेनानन्दशिल्पविद्ययोः सङ्गतिहेतुः अग्निरिह अस्यां सृष्टौ धायि=ध्रियते ।। ३ । १५ ।।

        [ भृगवः=विद्वांस इह--अध्वरेषु विशे विशे  विभ्वं.........अग्निं विरुरुचुः=विदीपयन्ति ]
Special
वामदेवः। अग्निः=ईश्वरो भौतिकश्च ॥ भुरिक् त्रिष्टुप् छन्दः । धैवतः ।।