Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 14

63 Mantra
3/14
Devata- अग्निर्देवता Rishi- देववातभरतावृषी Chhand- निचृत् अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआरो॒हाथा॑ नो वर्द्धया र॒यिम्॥१४॥

अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्द्ध॒य॒। र॒यिम् ॥१४॥

Mantra without Swara
अयन्ते योनिरृत्वियो यतो जातो अरोचथाः । तञ्जानन्नग्नऽआरोहाथा नो वर्धया रयिम् ॥

अयम्। ते। योनिः। ऋत्वियः। यतः। जातः। अरोचथाः। तम्। जानन्। अग्ने। आ। रोह। अथ। नः। वर्द्धय। रयिम्॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
पदार्थ:- (अयम्) वायुः (ते) तवेश्वरस्य (योनि:) निमित्तकारणम् (ऋत्वियः) ऋतुः प्राप्तोऽस्य सः । अत्र छन्दसि घस् ॥ अ० ५ । १ । १०६ ।। अनेन ऋतुशब्दाद् घस्प्रत्ययः (यतः) यस्मात् (जातः) प्रादुर्भूतः (अरोचथाः) दीपयति । अत्र व्यत्ययो लडर्थे लङ् (तम्) अग्निम् (जानन्) (अग्ने) जगदीश्वरो विद्युद्वा (आ) समन्तात् क्रियायोगे (रोह) उन्नतिं गमय गमयति वा (अथ) आनन्तर्ये ।  अत्र निपातस्य चेति दीर्घः (नः) अस्माकम् (वर्द्धय) सर्वोत्कृष्टतां संपादय संपादयति वा। अत्रान्येषामपीति दीर्घः (रयिम्) पूर्वोक्तं धनम् ॥ अयं मंत्रः शत० २।३।२।१३ व्याख्यातः ॥ १४ ॥
Essence
 

मनुष्यैर्यः [अग्निः] सर्वेषु कालेषु यथावद् योजनीयोऽस्ति, यो वायुनिमित्तेनोत्पद्यते, य एवानेककार्यसिद्धिकरत्वेन सर्वान् सुखयति, तं यथावद् विदित्वा, संप्रयुज्य, कार्याणि साधनीयानीति ॥ ३ । १४ ।।
Subject
पुनरीश्वरभौतिकावुपदिश्येते ॥
Meaning of Anvay
हे अग्ने=जगदीश्वर ! ते=तव ईश्वरस्य सृष्टौ य ऋत्वियः ऋतुःप्राप्तोऽस्य सः [अग्ने]=अग्निः विद्युत् वायोः सकाशाज्जातः प्रादुर्भूतः सन्नारोचथाः=समन्तात् प्रदीपयति ।

[अथ] अनन्तरं यः सूर्यादिरूपेण दिवमारोह=समन्ताद्रोहति उन्नतिं गमयति यो नः=अस्माकं रयिं पूर्वोक्तं धनम् [वर्द्धय]=वर्द्धयति सर्वोत्कृष्टतां सम्पादयति ।

 यस्याग्नेरयं वायुर्योनिः निमित्तकारणम् अस्ति, तम् अग्निं जानंस्त्वं तेन नः=अस्माकं रयिं सार्वभौमराज्यादिसिद्धिं धनं पूर्वोक्तं धनं वर्द्धय सर्वोत्कृष्टतां सम्पादय ।। ३ । १४ ।।

[य ऋत्वियः] [अग्ने]=अग्निर्वायोः सकाशाज्जातः सन्नरोचथाः......यो नः=अस्माकं रयिं [वर्द्धय]=वर्द्धयति ]
Special
देववातभरतौ । अग्निः=ईश्वरो विद्युच्च । निचृदनुष्टुप् । गान्धारः ॥