Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 13

63 Mantra
3/13
Devata- इन्द्राग्नी देवते Rishi- भरद्वाज ऋषिः Chhand- विराट् त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
उ॒भा वा॑मिन्द्राग्नीऽआहु॒वध्या॑ऽउ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑। उ॒भा दा॒तारा॑वि॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम्॥१३॥

उ॒भा। वा॒म्। इ॒न्द्रा॒ग्नी॒ऽइती॑न्द्राग्नी। आ॒हु॒वध्या॒ऽइत्या॑ऽहु॒वध्यै॑। उ॒भा। राध॑सः। स॒ह। मा॒द॒यध्यै॑। उ॒भा। दा॒तारौ॑। इ॒षाम्। र॒यी॒णाम्। उ॒भा। वाज॑स्य। सा॒तये॑। हु॒वे। वा॒म् ॥१३॥

Mantra without Swara
उभा वामिन्द्राग्नीऽआहुवध्याऽउभा राधसः सह मादयध्यै । उभा दाताराविषाँ रयीणामुभा वाजस्य सातये हुवे वाम् ॥

उभा। वाम्। इन्द्राग्नीऽइतीन्द्राग्नी। आहुवध्याऽइत्याऽहुवध्यै। उभा। राधसः। सह। मादयध्यै। उभा। दातारौ। इषाम्। रयीणाम्। उभा। वाजस्य। सातये। हुवे। वाम्॥१३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
( उभा) द्वौ । अत्र सर्वत्र सुपां सुलुगित्याकारादेशः (वाम्) तौ । अत्र व्यत्ययः (इन्द्राग्नी) इन्द्रो वायुर्विद्युदादिरूपोऽग्निश्च तौ (आहुवध्यै) शब्दयितुमुपदेष्टुं श्रोतुं वा । अत्र ह्वेञित्यस्मात्तुमर्थे सेसे० इति कध्यै प्रत्ययः ( उभा) उभौ (राधसः) राध्नुवन्ति=सम्यङ् निर्वर्तयन्ति सुखानि येभ्य: साधनेभ्यस्तानि धनानि । राध इति धननामसु पठितम् ॥ निघं० २।१०॥ (सह) परस्परम् (मादयध्यै) मोदयितुम् । अत्र मदी हर्षग्लेपनयोरिति णिजन्ताच्छध्यै प्रत्ययः ( उभा) उभौ (दातारौ) सुखदानहेतू ( इषान्) सर्वैर्जनैर्यानीष्यन्ते तेषाम् (रयीणाम्) परमोत्तमानां चक्रवर्तिराज्यादिधनानाम् ( उभा) द्वौ (वाजस्य) अत्युत्तमस्यान्नस्य । वाज इत्यन्ननामसु पठितम् ॥ निघं० २ ।७ ॥  (सातये) संभोगाय (हुवे) गृह्णामि । अत्र हु दानादनयोरित्यस्माद्बहुलं छन्दसीति शपो लुक् व्यत्ययेनात्मनेपदं च (वाम्) तौ । अत्रापि पूर्ववद्व्यत्ययः ॥ अयं मंत्रः शत० २ ।३ ।२ ।१२ व्याख्यातः ॥ १३ ॥
Essence
अत्र श्लेषालङ्कारः ।। ये मनुष्या ईश्वरसृष्टौ सुष्ठु किलाग्निवायुगुणान् विदित्वैतौ संप्रयुज्य कार्याणि साधयन्ति, ते सर्वाणि सार्वभौमराज्यधनानि प्राप्य नित्यं मोदन्ते; नेतर इति ।। ३ । १३ ।।
Subject
अथेश्वरभौतिकावग्निवायू उपदिश्येते ॥
Meaning of Anvay
अहं यौ [उभा] उभौ द्वौ दातारौ=सुखदानहेतू वर्तेते [वाम्] तौ इन्द्राग्नी इन्द्रो वायुविद्युदादिरूपौऽग्निश्च तौ आहुवध्यै=शब्दयितुम् उपदेष्टुं श्रोतुं वा हुवे= गृह्णामि ।

राधसः राघ्नुवन्ति=सम्यङ् निर्वर्तयन्ति सुखानि येभ्यः साधनेभ्यस्तानि धनानि भोगेन सह मादयध्यै=मोदयितुम्[उभा ] =उभौ वां तौ हुवे गृह्णामि ।

इषां सर्वैर्जनैर्यानीष्यन्ते तेषां रयीणां परमोत्तमानां चक्रवर्तिराज्यादिधनानां वाजस्य अत्युत्तमस्यान्नस्य च सातये सम्भोगाय [उभा]=उभौ द्वौ  वां=तौ  हुवे=गृह्णामि ॥ ३ । १३ ।।

[अहं.........इन्द्राग्नी.......हुवे,......इषां  रयीणां....... सातये........वां=तौ  हुवे=गृह्णामि ]
Meaning of Essence
भा० पदार्थः- रयीणाम् = सार्वभौम राज्यधनानाम् ।।
Special
भरद्वाजः । इन्द्राग्नीः=ईश्वरो वायुविद्युदादिरूपोऽग्रिः । विराट् त्रिष्टुप् । धैवतः ।।