Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 1

63 Mantra
3/1
Devata- अग्निर्देवता Rishi- आङ्गिरस ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आस्मि॑न् ह॒व्या जु॑होतन॥१॥

स॒मिधेति॑ स॒म्ऽइधा॑। अ॒ग्निम्। दु॒व॒स्य॒त॒। घृ॒तैः। बो॒ध॒य॒त॒। अति॑थिम्। आ। अ॒स्मि॒न्। ह॒व्या। जु॒हो॒त॒न॒ ॥१॥

Mantra without Swara
समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम् आस्मिन्हव्या जुहोतन ॥

समिधेति सम्ऽइधा। अग्निम्। दुवस्यत। घृतैः। बोधयत। अतिथिम्। आ। अस्मिन्। हव्या। जुहोतन॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(समिधा) सम्यगिध्यते-प्रदीप्यते यया तया ।  अत्र सम्पूर्णादिन्धेः कृतो बहुलमिति करणे क्विप् (अग्निम्) भौतिकम् (दुवस्यत) सेवध्यवम् (घृतैः) शोधितैः सुगन्ध्यादियुक्तैर्घृतादिभिर्यानेषु जलवाष्पादिभिर्वा । घृतमित्युदकनामसु पठितम् ॥ निघं० १ । १२ ॥ अत्र बहुवचनमनेकसाधनद्योतनार्थम् (बोधयत) उद्दीपयत (अतिथिम्) अविद्यामाना तिथिर्यस्य तम् (आ) समन्तात् (अस्मिन्) अग्नौ (हव्या) दातुमत्तुमादातुमर्हाणि वस्तूनि । अत्र शेश्छन्दसि बहुलमिति लोपः (जुहोतन) प्रक्षिपत । अत्र हुधातोर्लोटि मध्यमबहुवचने । तप्तनप् इतितनबादेशः ॥ अयं मन्त्रः शत. ६ । ५ । ५ । ६ व्याख्यातः ।। १ ।।
Essence
[तमतिथिमिव दुवस्यत]

भावार्थ:- अत्र वाचकलुप्तोपमालङ्कारः ॥ यथा गृहस्था मनुष्या आसनान्नजलवस्त्रप्रियवचनादिभिरुत्तमगुणमतिथिं सेवन्ते,

[हे विद्वांसो ! यूनंयं समिधा घृतैरग्निं बोधयत]

तथैव विद्वद्भिर्यज्ञवेदीकलायन्त्रयानेष्वग्निं स्थापयित्वा यथायोग्यैरिन्धनाज्यजलादिभिः प्रदीप्य वायुवृष्टिजलशुद्धियानोपकाराश्च नित्यं कार्या इति ।। ३ । १ ।।
Subject
अथ भौतिकोऽग्निः क्व क्वोपयोक्तव्य इत्युपदिश्यते ॥
Meaning of Anvay
हे विद्वांसः ! यूयं समिधा सम्यगिध्यते = प्रदीप्यते यया तया घृतैः शोधितैः सुगन्ध्यादियुक्तैर्घृतादिभिर्यानेषु जलवाष्पादिभिर्वा अग्निं भौतिकं बोधयत उद्दीपयत, तमतिथिम् अविद्यमाना तिथिर्यस्य तम् इव दुवस्यत सेवध्वम् । अस्मिन् अग्नौ हव्या=होतव्यानि द्रव्याणि, दातुमत्तमादातुमर्हाणि वस्तूनि आजुहोतन=प्रक्षिपत (समन्तात् प्रक्षिपते) ।। ३ । १ ॥
Meaning of Essence
भा. पदार्थः-- अतिथिम्=उत्तमगुणमतिथिम् । दुवस्यत=आसनान्नजलवस्त्रप्रियवचनादिभिः सेवध्वम् । समिधा=इन्धनेन । घृतैः=आज्यजलादिभिः ।
Special
आङ्गिरस: । अग्निः-भौतिकोऽग्निः । गायत्री । षड्जः ॥