Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 9

48 Mantra
25/9
Devata- पूषादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगत्यष्टिः Swara- गान्धारः
Mantra with Swara
विधृ॑तिं॒ नाभ्या॑ घृ॒तꣳरसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ऽ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षा॑सि चि॒त्राण्यङ्गै॒र्नक्ष॑त्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑॥९॥

विधृ॑ति॒मिति॒ विऽधृ॑तिम्। नाभ्या॑। घृ॒तम्। रसे॑न। अ॒पः। यू॒ष्णा। मरी॑चीः। वि॒प्रुड्भि॒रिति॑ वि॒प्रुट्ऽभिः॑। नी॒हा॒रम्। ऊ॒ष्मणा॑। शी॒नम्। वस॑या। प्रुष्वाः॑। अश्रु॑भि॒रित्यश्रु॑ऽभिः। ह्ना॒दु॒नीः॑। दू॒षीका॑भिः। अ॒स्ना। रक्षा॑ꣳसि। चि॒त्राणि॑। अङ्गैः॑। नक्ष॑त्राणि। रू॒पेण॑। पृ॒थि॒वीम्। त्व॒चा। जु॒म्ब॒काय॑। स्वाहा॑ ॥९ ॥

Mantra without Swara
विधृतिन्नाभ्या धृतँ रसेनापो यूष्णा मरीचीर्विप्रुड्भिर्नीहारमूष्मणा शीनँवसया प्रुष्वाऽअश्रुभिह््र्रादुनीर्दूषीकाभिरस्ना रक्षाँसि चित्राण्यङ्गैर्नक्षत्राणि रूपेण पृथिवीन्त्वचा जुम्बकाय स्वाहा ॥

विधृतिमिति विऽधृतिम्। नाभ्या। घृतम्। रसेन। अपः। यूष्णा। मरीचीः। विप्रुड्भिरिति विप्रुट्ऽभिः। नीहारम्। ऊष्मणा। शीनम्। वसया। प्रुष्वाः। अश्रुभिरित्यश्रुऽभिः। ह्नादुनीः। दूषीकाभिः। अस्ना। रक्षाꣳसि। चित्राणि। अङ्गैः। नक्षत्राणि। रूपेण। पृथिवीम्। त्वचा। जुम्बकाय। स्वाहा॥९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विधृतिम्) विशेषेण धारणाम् (नाभ्या) शरीरस्य मध्यावयवेन (घृतम्) आज्यम् (रसेन) (अप:) जलानि (यूष्णा) क्वथितेन रसेन (मरीचीः) किरणान् (विप्रुड्भिः) विशेषेण पूर्णैः (नीहारम्) प्रभातसमये सोमवद्वर्त्तमानम् (ऊष्मणा) ऊष्णतया (शीनम्) संकुचितं घृतम् (वसया) निवासहेतुना जीवनेन (प्रुष्वाः) पुष्णन्ति=सिंचन्ति याभिस्ताः (अश्रुभिः) रोदनैः (ह्रादुनीः) शब्दानामव्यक्तोच्चारणक्रिया: (दूषीकाभिः) विक्रियाभिः (अस्ना) रुधिराणि (रक्षांसि) पालयितव्यानि (चित्राणि) अद्भुतानि (अङ्गैः) अवयवैः (नक्षत्राणि) (रूपेण) (पृथिवीम्) भूमिम् (त्वचा) मांसरुधिरादीनां संवरकेणेन्द्रियेण (जुम्बकाय) अतिवेगवते (स्वाहा) सत्यां वाचम् ॥ ९ ॥
Essence
मनुष्यैर्धारणादिभिः कर्मभिर्दुर्व्यसनानि रोगाँश्च निवार्य्य सत्यभाषणादिधर्मलक्षणानि विचार्य प्रवर्त्तनीयम् ॥ २५ । ९ ॥
Subject
पुनः केन किं भवतीत्याह ॥
Meaning of Anvay
हे मनुष्या यूयं नाभ्या विधृतिं घृतं रसेनापो यूष्णा मरीचीर्विप्रुड्भिर्नीहारमूष्मणा शीनं वसया प्रुष्वा अश्रुभिर्ह्रादुनीर्दूषीकाभिश्चित्राणि रक्षांस्यस्नाङ्गैः रूपेण नक्षत्राणि त्वचा पृथिवीं विदित्वा जुम्बकाय स्वाहा प्रयुङ्ग्ध्वम् ॥ ९ ॥
सपदार्थान्वयः--हे मनुष्याः ! यूयं नाभ्या शरीरस्य मध्यावयवेन विधृतिं विशेषेण धारणां; घृतम्आज्यं, रसेन; अपः जलानि यूष्णा क्वथितेन रसेन, मरीची: किरणान् विप्रुड्भिः विशेषेण पूर्णै: नीहारं प्रभातसमये सोमवद्वर्त्तमानम्, ऊष्मणा ऊष्णतया शीनं सङ्कुचितं घृतं, वसया निवासहेतुना जीवनेन प्रुष्वाः पुष्णन्ति=सिञ्चन्ति याभिस्ताः, अश्रुभिः रोदनैः ह्रादुनी: शब्दानामव्यक्तोच्चारणक्रियाः, दूषीकाभिः विक्रियाभिः चित्राणि अद्भुतानि रक्षांसि पालयितव्यानि अस्ना रुधिराणि, अङ्गैः अवयवैः रूपेण नक्षत्राणि, त्वचा मांसरुधिरादीनां संवरकेणेन्द्रियेण पृथिवीं भूमिंविदित्वा जुम्बकाय प्रतिवेगवते स्वाहा सत्यां वाचं प्रयुङ्ग्ध्वम् ॥ २५ । ९ ॥
Meaning of Essence
स्वाहा=सत्यभाषणादिधर्मलक्षणानि ॥
Special
प्रजापतिः । पूषादयः=पुष्टिकरादयः । भुरिगत्यष्टिः । गान्धारः ॥