Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 48

48 Mantra
25/48
Devata- विद्वान् देवता Rishi- गोतम ऋषिः Chhand- भुरिग्बृहती Swara- मध्यमः
Mantra with Swara
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात्॥४८॥
Mantra without Swara
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः। स नो बोधि श्रुधि हवमुरुष्या णो अघायतः समस्मात् ॥

तम्। त्वा। शोचिष्ठ। दीदिव इति दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिभ्य इति सखिऽभ्यः। सः। नः। बोधि। श्रुधी। हवम्। उरुष्य। नः। अघायतः। अघयत इत्यघऽयतः। समस्मात्॥४८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तम्) (त्वा) त्वाम् (शोचिष्ठ) सद्गुणैः प्रकाशमान (दीदिवः) विद्यादिगुणैः शोभावन् (सुम्नाय) सुखाय (नूनम्) निश्चितम् (ईमहे) याचामहे (सखिभ्यः) मित्रेभ्यः (सः) (नः) अस्मान् (बोधि) बोधय (श्रुधी) शृणु (हवम्) आह्वानम् (उरुष्य) रक्ष (नः) अस्माकम् (अघायतः) आत्मनोऽघमाचरतः (समस्मात्) अधर्मेण तुल्यगुणकर्मस्वभावात् ॥ ४८ ॥
Essence
विद्यार्थिनोऽध्यापकान् प्रत्येवं वदेयुः—भवन्तोयदस्माभिरधीतं तत्परीक्षन्ताम्, अस्मान् दुष्टाचारात् पृथग् रक्षन्तु, यतो वयं सर्वैः सह मित्रवद् वर्त्तेमहि ॥ २५ । ४८ ॥
Subject
पुनर्मनुष्यैरिह कथं वर्त्तितव्यमित्याह ॥
Meaning of Anvay
हे शोचिष्ठ दीदिवो विद्वन् यस्त्वं नो बोधि तन्त्वा सुम्नाय सखिभ्यो नूनं वयमीमहे ।स त्वन्नो हवं श्रुधि समस्मादघायत उरुष्य च ॥ ४८ ॥
सपदार्थान्वयः--हे शोचिष्ठ सद्गुणै: प्रकाशमान ! दीदिवः=विद्वन् ! विद्यादिगुणैः शोभावन् ! यस्त्वं नः अस्मान् बोधि बोधय, तन्त्वा त्वां सुम्नाय सुखाय सखिभ्यः मित्रेभ्यः नूनं निश्चितं वयमीमहे याचामहे । स त्वं नः अस्माकं हवम् आह्वानं श्रुधी शृणु, समस्मात् अधर्मेण तुल्यगुणकर्मस्वभावात् अघायतः आत्मनोऽघमाचरतः उरुष्य रक्ष च ॥ २५ । ४८ ॥
Meaning of Essence
पदार्थ:- अघायतः=दुष्टाचारात् । उरुष्य=पृथग् रक्ष ।
Special
गोतमः । विद्वान्=स्पष्टम् । भुरिग्बृहती | मध्यमः ॥

[ पूर्वापराध्यायार्थ संगतिमाह--]
अस्मिन्नध्याये सृष्टिस्थपदार्थगुणवर्णनं, पश्वादिप्राणिनां शिक्षा-रक्षणं, स्वाङ्गरक्षणं, परमेश्वर-प्रार्थनं, यज्ञप्रशंसा, प्रज्ञाप्रापणं, धर्मेच्छाऽश्वगुणकथनं, तच्छिक्षणमात्मज्ञानधनप्रापणयोर्विधानं चोक्तमत एतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ २५ ॥
इति श्रीयुतपण्डितसुदर्शनदेवाचार्यविरचिते दयानन्द-यजुर्वेदभाष्य-भास्करे पञ्चविंशोऽध्यायः सम्पूर्णः ॥