Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 46

48 Mantra
25/46
Devata- विश्वेदेवा देवताः Rishi- गोतम ऋषिः Chhand- भुरिक् शक्वरी Swara- धैवतः
Mantra with Swara
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः। आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत्। य॒ज्ञं च॑ नस्त॒न्वं च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह सी॑षधाति॥४६॥

इ॒मा। नु। क॒म्। भुव॑ना। सी॒ष॒धा॒म॒। सी॒स॒धा॒मेति॑ सीसधाम। इन्द्रः॑। च॒। विश्वे॑। च॒। दे॒वाः। आ॒दि॒त्यैः। इन्द्रः॑। सग॑ण॒ इति॒ सऽग॑णः। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑। अ॒स्मभ्य॑म्। भे॒ष॒जा। क॒र॒त्। य॒ज्ञम्। च॒। नः॒। त॒न्व᳖म्। च॒। प्र॒जामिति॑ प्र॒ऽजाम्। च॒। आ॒दि॒त्यैः। इन्द्रः॑। स॒ह। सी॒ष॒धा॒ति॒। सि॒स॒धा॒तीति॑ सिसधाति ॥४६ ॥

Mantra without Swara
इमा नु कम्भुवना सीषधामेन्द्रश्च विश्वे च देवाः । आदित्यैरिद्न्रः सगणो मरुद्भिरस्मभ्यम्भेषजा करत् । यज्ञञ्च नस्तन्वञ्च प्रजाञ्चादित्यैरिन्द्रः सह सीषधाति ॥

इमा। नु। कम्। भुवना। सीषधाम। सीसधामेति सीसधाम। इन्द्रः। च। विश्वे। च। देवाः। आदित्यैः। इन्द्रः। सगण इति सऽगणः। मरुद्भिरिति मरुत्ऽभिः। अस्मभ्यम्। भेषजा। करत्। यज्ञम्। च। नः। तन्वम्। च। प्रजामिति प्रऽजाम्। च। आदित्यैः। इन्द्रः। सह। सीषधाति। सिसधातीति सिसधाति॥४६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इमा) इमानि (तु) सद्यः (कम्) सुखम् (भुवना) भुवनानि (सीषधाम) साधयेम (इन्द्रः) परमैश्वर्यवान् राजा (च) (विश्वे) सर्वे (च) (देवाः) विद्वांसः सभासदः (आदित्यैः) मासै: (इन्द्रः)सूर्य: (सगणः) गणैः सह वर्त्तमानः (मरुद्भिः) मनुष्यैः सह (अस्मभ्यम्) (भेषजा) भेषजानि (करत्) कुर्यात् (यज्ञम्) विद्वत्सत्कारादिकम् (च) (नः) अस्माकम् (तन्वम्) शरीरम् (च) (प्रजाम्) सन्तानादिकम् (च) (आदित्यैः) उत्तमैर्विद्वद्भिः सह (इन्द्रः) ऐश्वर्यकारी सभेश: (सह) (सीषधाति) साधयेत् ॥ ४६ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः । ये मनुष्याः सूर्यवन्नियमेन वर्तित्वा, शरीरमरोगमात्मानं विद्वांसं संसाध्य, पूर्णं ब्रह्मचर्यं कृत्वा, स्वं वृतां हृद्यां स्त्रियं स्वीकृत्य, तत्र प्रजा उत्पाद्य, सुशिक्ष्य विदुषीः कुर्वन्ति ते श्रियः पतयो जायन्ते ॥ २५ । ४६ ॥ -
Subject
पुनः के श्रीमन्तो भवन्तीत्याह ॥
Meaning of Anvay
हे मनुष्या यथेन्द्रश्च विश्वे देवाश्चेमा विश्वा भुवना धरन्ति तथा वयं कं नु सीषधाम । यथा सगण इन्द्र आदित्यैः सह सर्वांल्लोकान् प्रकाशयति तथा मरुद्भिः सह वैद्योऽस्मभ्यं भेषजा करत् । यथाऽऽदित्यैः सहेन्द्रो नो यज्ञं च तन्वं च प्रजांच सीषधाति तथा वयं साध्नुयाम ॥ ४६ ॥
सपदार्थान्वयः--हे मनुष्याः ! यथेन्द्रःपरमैश्वर्यवान् राजा, च विश्वे सर्वेदेवाः विद्वांसःसभासदः, इमा इमानि विश्वा भुवना भुवनानि धरन्ति; तथा वयं कं सुखं नु सद्यः सीषधाम साधयेम । यथा सगणः गणैः सह वर्त्तमानः इन्द्रः सूर्यः, आदित्यैः मासैः सह सर्वांल्लोकान् प्रकाशयति, तथा मरुद्भिः मनुष्यैः सह वैद्योऽस्मभ्यं भेषजा भेषजानि करत् कुर्यात् । यथाऽऽदित्यैः उत्तमैर्विद्वद्भिः सह इन्द्रः ऐश्वर्यकारी सभेशः, नः अस्माकं यज्ञं विद्वत्सत्कारादिकं च, तन्वं शरीरं च, प्रजां सन्तानादिकं च सीषधाति साधयेत्;तथा वयं साध्नुयाम ॥ २५ । ४६ ॥
Special
गोतमः । विश्वेदेवाः=विद्वांसः सभासदः । भुरिक् शक्वरी । धैवतः स्वरः ॥