Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 42

48 Mantra
25/42
Devata- यजमानो देवता Rishi- गोतम ऋषिः Chhand- स्वराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ऽऋ॒तुः।या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ॥४२॥

एकः॑। त्वष्टुः॑। अश्व॑स्य। वि॒श॒स्तेति॑ विऽश॒स्ता। द्वा। य॒न्तारा॑। भ॒व॒तः॒। तथा॑। ऋ॒तुः। या। ते॒। गात्रा॑णाम्। ऋ॒तु॒थेत्यृ॑तु॒ऽथा। कृ॒णोमि॑। तातेति॒ ताता॑। पिण्डा॑नाम्। प्र। जु॒हो॒मि॒। अ॒ग्नौ ॥४२ ॥

Mantra without Swara
एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथऽऋतुः । या ते गात्राणामृतुथा कृणोमि ताता पिण्डानाम्प्र जुहोम्यग्नौ ॥

एकः। त्वष्टुः। अश्वस्य। विशस्तेति विऽशस्ता। द्वा। यन्तारा। भवतः। तथा। ऋतुः। या। ते। गात्राणाम्। ऋतुथेत्यृतुऽथा। कृणोमि। तातेति ताता। पिण्डानाम्। प्र। जुहोमि। अग्नौ॥४२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एकः) असहायः (त्वष्टु:) प्रदीप्तस्य (अश्वस्य) तुरङ्गस्य । अत्र संहितायामिति दीर्घः (विशस्ता) विच्छेदक: (द्वा) द्वौ (यन्तारा) नियामकौ (भवतः) (तथा ) तेन प्रकारेण (ऋतुः) वसन्तादिः (या) यानि (ते) तव (गात्राणाम्) अङ्गानाम् (ऋतुथा) ऋतो: (कृणोमि) (ता ता) तानि तानि (पिण्डानाम्) (प्र) (जुहोमि) (अग्नौ) पावके ॥ ४२ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथाऽश्वशिक्षकाः प्रत्यृत्वश्वान् शिक्षयन्ति, तथा गुरवो विद्यार्थिनां चेष्टाकरणानि शिक्षयन्ति । यथाऽग्नौ पिण्डान् हुत्वा वायुं शोधयन्ति तथा विद्याग्नावविद्याभ्रमान् हुत्वाऽऽत्मनः शोधयन्ति ॥ २५ । ४२ ॥
Subject
पुनः कथं पशवः शिक्षणीया इत्याह ॥
Meaning of Anvay
हे मनुष्या यथैक ऋतुस्त्वष्टुरश्वस्य विशस्ता भवति यौ द्वा यन्तारा भवतस्तथा या ते गात्राणां पिण्डानामृतुथा वस्तून्यहं कृणोमि ता ताऽग्नौ प्रजुहोमि ॥ ४२ ॥
सपदार्थान्वयः--हे मनुष्याः ! यथैकः असहायः ऋतुः वसन्तादिः त्वष्टुः प्रदीप्तस्य अश्वस्य तुरङ्गस्य विशस्ता विच्छेदकः भवति, यौ द्वा द्वौ यन्तारा नियामकौ भवतस्तथा तेन प्रकारेण या यानि ते तव गात्राणाम् अङ्गानां पिण्डानामृतुथा ॠतो: वस्तून्यहं कृणोमि, ता ता तानि तानि अग्नौ पावके प्रजुहोमि॥ २५ । ४२ ॥
Special
गोतमः । यजमानः=गुरुः । स्वराट्पङ्क्तिः । पञ्चमः ॥