Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 41

48 Mantra
25/41
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
चतु॑स्त्रिꣳशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति।अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोतु॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त॥४१॥

चतु॑स्त्रिꣳश॒दिति॒ चतुः॑ऽत्रिꣳशत्। वा॒जिनः॑। दे॒वब॑न्धो॒रिति॑ दे॒वऽब॑न्धोः॒। वङ्क्रीः॑। अश्व॑स्य। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। सम्। ए॒ति॒। अच्छि॑द्रा। गात्रा॑। व॒युना॑। कृ॒णो॒तु॒। परु॑ष्परुः। परुः॑परु॒रिति॒ परुः॑ऽपरुः। अ॒नु॒घुष्येत्य॑नु॒ऽघुष्य॑। वि। श॒स्त॒ ॥४१ ॥

Mantra without Swara
चतुस्त्रिँशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति । अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या विशस्त ॥

चतुस्त्रिꣳशदिति चतुःऽत्रिꣳशत्। वाजिनः। देवबन्धोरिति देवऽबन्धोः। वङ्क्रीः। अश्वस्य। स्वधितिरिति स्वऽधितिः। सम्। एति। अच्छिद्रा। गात्रा। वयुना। कृणोतु। परुष्परुः। परुःपरुरिति परुःऽपरुः। अनुघुष्येत्यनुऽघुष्य। वि। शस्त॥४१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(चतुस्त्रिंशत्) शिक्षणानि (वाजिनः) वेगवतः (देवबन्धोः) देवा=विद्वांसो बन्धुवद्यस्य तस्य (वङ्क्रीः) कुटिला गती: (अश्वस्य) (स्वधितिः) वज्र इव वर्त्तमानः (सम्) सम्यक् (एति) गच्छति (अच्छिद्रा) छिद्ररहितानि (गात्रा) गात्राणि (वयुना) वयुनानि=प्रज्ञानानि (कृणोतु) (परुष्परु:) मर्ममर्म (अनुघुष्य) आनुकूल्येन घोषयित्वा।अत्र संहितायामिति दीर्घः (वि) विशेषेण (शस्त) छिन्त ॥ ४१ ॥
Essence
हे मनुष्याः ! यथा चतुरोऽश्वशिक्षकश्चतुस्त्रिंशद् विचित्रा गतीरश्वं नयति, वैद्यश्चारोगिणं करोति, तथैवान्येषां पशूनां रक्षणेनोन्नतिः कार्या ॥ २५ । ४१ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे मनुष्या यथाऽश्वशिक्षको देवबन्धोर्वाजिनोऽश्वस्य चतुस्त्रिंशद्वङ्क्रीः समेत्यच्छिद्रा गात्रा वयुना कृणोतु तस्य परुष्परुरनुघुष्य स्वधितिरिव रोगान् यूयं वि शस्त ॥ ४१ ॥
सपदार्थान्वयः--हे मनुष्याः ! यथाऽश्वशिक्षको देवबन्धोः देवाः=विद्वांसो बन्धुवद्यस्य तस्य वाजिनः वेगवतः अश्वस्य चतुस्त्रिंशद् शिक्षणानि वङ्क्रीः कुटिला गती: समेति सम्यग्गच्छति; अच्छिद्रा छिद्ररहितानि गात्रा गात्राणि वयुना वयुनानि=प्रज्ञानानि कृणोतु, तस्य परुष्परु: मर्म-मर्म अनुघुष्यआनुकूल्येन घोषयित्वा स्वधितिः वज्रइव वर्त्तमानः इव रोगान् यूयं विशस्त विशेषेण छिन्त ॥ २५ । ४१ ॥
Meaning of Essence
वङ्क्रीः=विचित्रा गतीः
Special
गोतमः । यज्ञः=अश्वादीनां रक्षणम् । त्रिष्टुप् | धैवतः ॥