Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 40

48 Mantra
25/40
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑।स्रु॒चेव॒ ता ह॒विषो॑ऽअध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि॥४०॥

यत्। ते॒। सा॒दे। मह॑सा। शूकृ॑तस्य। पार्ष्ण्या॑। वा॒। कश॑या। वा॒। तु॒तोद॑। स्रु॒चेवे॑ति सु॒चाऽइ॑व। ता। ह॒विषः॒। अ॒ध्व॒रेषु॑। सर्वा॑। ता। ते॒। ब्रह्म॑णा। सू॒द॒या॒मि॒ ॥४० ॥

Mantra without Swara
यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । स्रुचेव ता हविषोऽअध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥

यत्। ते। सादे। महसा। शूकृतस्य। पार्ष्ण्या। वा। कशया। वा। तुतोद। स्रुचेवेति सुचाऽइव। ता। हविषः। अध्वरेषु। सर्वा। ता। ते। ब्रह्मणा। सूदयामि॥४०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) यतः (ते) तव (सादे) स्थित्यधिकरणे (महसा) महत्त्वेन (शूकृतस्य) शीघ्रं शिक्षितस्य। श्विति क्षिप्रना० । निघं० २ | १५ ॥ (पार्ष्ण्या) पार्ष्णिषु=कक्षासु साधूनि (वा) (कशया) ताडनसाधनेन (वा) (तुतोद) तुद्यात् (स्रुचेव) यथा स्रुचा प्रेरयन्ति तथा (ता) तानि (हविषः) होतुमर्हस्य (अध्वरेषु) अहिंसनीयेषु यज्ञेषु (सर्वा) सर्वाणि (ता) तानि (ते) तुभ्यम् (ब्रह्मणा) धनेन (सूदयामि) प्रापयामि ॥ ४० ॥
Essence
अत्रोपमालङ्कारः । यथा यज्ञसाधनैर्हवींष्यग्नौ प्रेरयन्ति, तथैवाश्वादीनि सुशिक्षारीत्या प्रेरयेयुः ॥ २५ । ४० ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे विद्वँस्ते सादे महसा शूकृतस्य कशया वा यत्पार्ष्ण्या वा तुतोद ता तान्यध्वरेषु हविषः स्रुचेव करोषि ता सर्वा ते ब्रह्मणाऽहं सूदयामि ॥ ४० ॥
सपदार्थान्वयः- हे विद्वन् ! ते तव सादे स्थित्यधिकरणे महसा महत्त्वेन शूकृतस्य शीघ्रं शिक्षितस्य, कशया ताडनसाधनेन वा यत्यतः पार्ष्ण्या पार्ष्णिषु=कक्षासु साधूनि वा तुतोद तुद्यात्; ता=तान्यध्वरेषु अहिंसनीयेषु यज्ञेषु हविषः होतुमर्हस्य स्रुचेव यथा स्रुचा प्रेरयन्ति तथा करोषि, ता तानि सर्वा सर्वाणिते तुभ्यं ब्रह्मणा धनेन अहं सूदयामि प्रापयामि ॥ २५ । ४० ॥
Special
गोतमः । यज्ञः=अश्वादीनां सुशिक्षणम् । भुरिक्त्रिष्टुप् | धैवतः ॥