Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 38

48 Mantra
25/38
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- विराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त्त॑नं॒ यच्च॒ पड्वी॑श॒मर्व॑तः।यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु॥३८॥

नि॒क्रम॑ण॒मिति॑ नि॒ऽक्रम॑णम्। नि॒षद॑नम्। नि॒सद॑नमिति॑ नि॒ऽसद॑नम्। वि॒वर्त्त॑न॒मिति॑ वि॒ऽवर्त्त॑नम्। यत्। च॒। पड्वी॑शम्। अर्व॑तः। यत्। च॒। प॒पौ। यत्। च॒। घा॒सिम्। ज॒घास॑। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒ ॥३८ ॥

Mantra without Swara
निक्रमणन्निषदनँविवर्तनँयच्च पड्वीशमर्वतः । यच्च पपौ यच्च घासिञ्जघास सर्वा ता ते अपि देवेष्वस्तु ॥

निक्रमणमिति निऽक्रमणम्। निषदनम्। निसदनमिति निऽसदनम्। विवर्त्तनमिति विऽवर्त्तनम्। यत्। च। पड्वीशम्। अर्वतः। यत्। च। पपौ। यत्। च। घासिम्। जघास। सर्वा। ता। ते। अपि। देवेषु। अस्तु॥३८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(निक्रमणम्) निरन्तरं क्रमते यस्मिँस्तत् (निषदनम्) नितरां सीदन्ति यस्मिँस्तत् (विवर्त्तनम्) विशेषेण वर्त्तन्ते यस्मिँस्तत् (यत्) (च) (पड्वीशम्) यत्पादेषु विशति तत् (अर्वतः) अश्वस्य (यत्) (च) (पपौ) पिबति (यत्) (च) (घासिम्) अदनम् (जघास) अत्ति (सर्वा) सर्वाणि (ता) तानि (ते) तव (अपि) (देवेषु) दिव्येषु गुणेषु (अस्तु) ॥ ३८ ॥
Essence
हे मनुष्याः ! भवन्तोऽश्वादीनां सुशिक्षणेन, भक्ष्यपेयदानेन सर्वाणि कार्याणि साध्नुवन्तु ॥ २५ । ३८ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे विद्वन् यत्तेऽर्वतो निक्रमणं निषदनं विवर्त्तनं यच्च पड्वीशं यच्चायं पपौ यच्चघासि जघास ताः सर्वा युक्त्या सन्तु तद्देवेष्वप्यस्तु ॥ ३८ ॥
सपदार्थान्वयः--हे विद्वन् ! यत्ते तव अर्वतः अश्वस्य निक्रमणं निरन्तरं क्रमते यस्मिँस्तत्, निषदनं नितरां सीदन्ति यस्मिँस्तत्, विवर्त्तनं विशेषेण वर्त्तन्ते यस्मिँस्तत्, यच्चपड्वीशं यत्पादेषु विशति तत्, यच्चायं पपौ पिबति; यच्च घासिम् अदनं जघास अत्ति, ता तानि सर्वा सर्वाणि युक्त्या सन्तु; तद् देवेषु दिव्येषु गुणेषु अप्यस्तु ॥३८॥
Special
गोतमः । यज्ञः=अश्वानां सुशिक्षणादिः । विराट्पङ्क्तिः । पञ्चमः ॥