Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 35

48 Mantra
25/35
Devata- विश्वेदेवा देवताः Rishi- गोतम ऋषिः Chhand- स्वराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं यऽई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑।ये चार्व॑तो मासभि॒क्षामु॒पास॑तऽउ॒तो तेषा॑म॒भिगू॑र्त्तिर्नऽइन्वतु॥३५॥

ये। वा॒जिन॑म्। प॒रि॒पश्य॒न्तीति॑ परि॒ऽपश्य॑न्ति। प॒क्वम्। ये। ई॒म्। आ॒हुः। सु॒र॒भिः। निः। ह॒र॒। इति॑। ये। च॒। अर्व॑तः। मा॒स॒ऽभि॒क्षामिति॑ मांꣳसऽभिक्षाम्। उ॒पास॑त॒ इत्यु॑प॒ऽआस॑ते। उ॒तो इत्यु॒तो। तेषा॑म्। अ॒भिगू॑र्त्ति॒रित्य॒भिऽगू॑र्त्तिः। नः॒। इ॒न्व॒तु॒ ॥३५ ॥

Mantra without Swara
ये वाजिनम्परिपश्यन्ति पक्वँय ईमाहुः सुरभिर्निर्हरेति । ये चार्वतो माँसभिक्षामुपासतऽउतो तेषामभिगूर्तिर्न इन्वतु ॥

ये। वाजिनम्। परिपश्यन्तीति परिऽपश्यन्ति। पक्वम्। ये। ईम्। आहुः। सुरभिः। निः। हर। इति। ये। च। अर्वतः। मासऽभिक्षामिति मांꣳसऽभिक्षाम्। उपासत इत्युपऽआसते। उतो इत्युतो। तेषाम्। अभिगूर्त्तिरित्यभिऽगूर्त्तिः। नः। इन्वतु॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ये) (वाजिनम्) वेगवन्तमश्वम् (परिपश्यन्ति) सर्वतोऽन्वीक्षन्ते (पक्वम्) परिपक्वस्वभावम् (ये) (ईम्) प्राप्तम् (आहुः) (सुरभिः) सुगन्धः (निः) नितराम् (हर) निस्सारय (इति) (ये) (च) (अर्वतः) अश्वस्य (मांसभिक्षाम्) मांसयाचनाम् (उपासते) (उतो) अपि (तेषाम्) (अभिगूर्त्तिः) अभ्युद्यमः (नः) अस्मान् (इन्वतु) प्राप्नोतु ॥ ३५ ॥
Essence
येऽश्वादिश्रेष्ठानां पशूनां मांसमत्तुमिच्छेयुस्ते राजादिभिः श्रेष्ठैर्निरोद्धव्याः । यतो मनुष्याणामुद्यमसिद्धिः स्यात् ॥ २५ । ३५ ॥
Subject
पुनः के निरोद्धव्या इत्याह ॥
Meaning of Anvay
येऽर्वतो मांसभिक्षामुपासते च येऽश्वमीं हन्तव्यमाहुस्तान्निर्हर दूरे प्रक्षिप।ये वाजिनं पक्वं परिपश्यन्ति उतो अपि तेषां सुरभिरभिगूर्तितेर्न इन्वत्विति ॥ ३५ ॥
सपदार्थान्वयः--येऽर्वतः अश्वस्य मांसभिक्षां मांसयाचनाम् उपासते, च येऽश्वमीं प्राप्तं हन्तव्यमाहुः; तान्निर्हर=दूरे प्रक्षिप नितरां निस्सारय । ये वाजिनं वेगवन्तमश्वं पक्वं परिपक्वस्वभावं परिपश्यन्ति सर्वतोऽन्वीक्षन्ते, उतो =अपि तेषां सुरभिः सुगन्धः अभिगूर्तिः्त अभ्युद्यमः नः अस्मान् इन्वतु प्राप्नोतु इति ॥ २५ । ३५ ॥
Meaning of Essence
अभिगूर्तिः=उद्यमसिद्धिः । मांसभिक्षाम्=मांसमत्तुमिच्छाम्।
Special
गोतमः । विश्वेदेवाः=राजादयः श्रेष्ठजनाः। स्वराट्त्रिष्टुप् । धैवतः ॥