Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 34

48 Mantra
25/34
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति।मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु॥३४॥

यत्। ते॒। गात्रा॑त्। अ॒ग्निना॑। प॒च्यमा॑नात्। अ॒भि। शूल॑म्। निह॑त॒स्येति॒ निऽह॑तस्य। अ॒व॒धाव॒ती॒त्य॑व॒ऽधाव॑ति। मा। तत्। भूम्या॑म्। आ। श्रि॒ष॒त्। मा। तृणे॑षु। दे॒वेभ्यः॑। तत्। उ॒शद्भ्य॒ऽइत्यु॒शत्ऽभ्यः॑। रा॒तम्। अ॒स्तु॒ ॥३४ ॥

Mantra without Swara
यत्ते गात्रादग्निना पच्यमानादभि शूलम्निहतस्यावधावति । मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥

यत्। ते। गात्रात्। अग्निना। पच्यमानात्। अभि। शूलम्। निहतस्येति निऽहतस्य। अवधावतीत्यवऽधावति। मा। तत्। भूम्याम्। आ। श्रिषत्। मा। तृणेषु। देवेभ्यः। तत्। उशद्भ्यऽइत्युशत्ऽभ्यः। रातम्। अस्तु॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) यदा (ते) तव (गात्रात्) (अग्निना) अन्तःकरणरूपेण तेजसा (पच्यमानात्) (अभि) (शूलम्) शु=शीघ्रं लाति=बोधं गृह्णाति येन तद्वचः। पृषोदरादित्वात्सिद्धम्(निहतस्य) निश्चयेन कृतश्रमस्य (अवधावति) गच्छति (मा) (तत्) (भूम्याम्) (आ, श्रिषत्) आश्रयति (मा) (तृणेषु) (देवेभ्य:) विद्वद्भ्यः (तत्) (उशद्भ्यः) सत्पुरुषेभ्यः (रातम्) दत्तम् (अस्तु) ॥ ३४ ॥
Essence
हे मनुष्याः ! यानि ज्वरादिपीडितान्यङ्गानि भवेयुः तानि वैद्येभ्यो नीरोगाणि कार्याणि, तैर्यदौषधं दीयते तद् रोगिभ्यो हितकरं भवति ॥ २५ । ३४ ॥
Subject
पुनर्मनुष्यैः केन किं निस्सारणीयमित्याह ॥
Meaning of Anvay
हे मनुष्य निहतस्य ते तवाग्निना पच्यमानाद्गात्राद्यच्छूलमभ्यवधावति तद्भूम्यां माश्रिषत् । तत्तृणेषु माश्रिषत् किन्तु तच्चोशद्भ्यो देवेभ्यो रातमस्तु ॥ ३४ ॥
सपदार्थान्वयः--हे मनुष्य ! निहतस्य निश्चयेन कृतश्रमस्य ते=तवाग्निना अन्तःकरणरूपेण तेजसा पच्यमानादू गात्राद्अङ्गात्यद् यदा शूलं शु=शीघ्रं लाति=बोधं गृह्णाति येन तद्वचः अभ्यवधावति गच्छति, तद् भूम्यां मा आ+श्रिषत् आश्रयति, तत् तृणेषु मा श्रिषद्आश्रयति, किन्तु--तच्चोशद्भ्यः सत्पुरुषेभ्य: देवेभ्यः विद्वद्भ्यः रातं दत्तम् अस्तु॥ २५ । ३४ ॥
Meaning of Essence
अग्निना=ज्वरादिना | पच्यमानात् = पीडयमानात् ।उशद्भ्यः=वैद्येभ्यः।
Special
गोतमः । यज्ञः=औषधेन रोगनिवारणम्| भुरिक्त्रिष्टुप् | धैवतः ॥