Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 33

48 Mantra
25/33
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ यऽआ॒मस्य॑ क्र॒विषो॑ ग॒न्धोऽअस्ति॑।सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेध॑ꣳ शृत॒पाकं॑ पचन्तु॥३३॥

यत्। ऊव॑ध्यम्। उ॒दर॑स्य। अ॒प॒वातीत्य॑प॒ऽवाति॑। यः। आ॒मस्य॑। क्र॒विषः॑। ग॒न्धः। अस्ति॑। सु॒कृ॒तेति॑ सुऽकृ॒ता। तत्। श॒मि॒तारः॑। कृ॒ण्व॒न्तु॒। उ॒त। मेध॑म्। शृ॒त॒पाक॒मिति॑ शृत॒ऽपाक॑म्। प॒च॒न्तु॒ ॥३३ ॥

Mantra without Swara
यदूवध्यमुदरस्यापवाति यऽआमस्य क्रविषो गन्धोऽअस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधँ शृतपाकम्पचन्तु ॥

यत्। ऊवध्यम्। उदरस्य। अपवातीत्यपऽवाति। यः। आमस्य। क्रविषः। गन्धः। अस्ति। सुकृतेति सुऽकृता। तत्। शमितारः। कृण्वन्तु। उत। मेधम्। शृतपाकमिति शृतऽपाकम्। पचन्तु॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) (ऊवध्यम्) मलीनम् (उदरस्य) उदरस्य सकाशात् (अपवाति) अपगच्छति (यः) (आमस्य) अपरिपक्वस्य (क्रविषः) भक्षितस्य (गन्धः) (अस्ति) (सुकृता) सुकृतं=सुष्ठुसंस्कृतम् । अत्राकारादेशः (तत्) (शमितारः) शान्तिकरा: (कृण्वन्तु) कुर्वन्तु (उत) अपि (मेधम्) पवित्रम् (शृतपाकम् ) शृतः=पक्वः पाको यस्य तत् (पचन्तु) ॥३३ ॥
Essence
ये जना यज्ञं कर्तुमिच्छेयुस्ते दुर्गन्धयुक्तं द्रव्यं विहाय, सुगन्धादियुक्तं सुसंस्कृतंपाकं कृत्वाऽग्नौ जुहुयुः, ते जगद्धितैषिणो भवन्ति ॥ २५ । ३३ ॥
Subject
पुनः के किमर्थं कि न कुर्युरित्याह॥
Meaning of Anvay
हे मनुष्या उदरस्य यदूवध्यमपवाति य आमस्य क्रविषो गन्धोऽस्ति तच्छमितारः सुकृता कृण्वन्तूतापि मेधं श्रृतपाकं पचन्तु ॥ ३३ ॥
सपदार्थान्वयः- हे मनुष्याः ! उदरस्य उदरस्य सकाशाद् यदूवध्यं मलीनम् अपवाति अपगच्छति, य आमस्य अपरिपक्वस्य क्रविषः भक्षितस्य गन्धोऽस्ति, तच्छमितारः शान्तिकराः सुकृता सुकृतं=सुष्ठु संस्कृतं कृण्वन्तु, कुर्वन्तु; उत=अपि मेधं पवित्रं शृतपाकं शृतः=पक्वः पाको यस्य तत् पचन्तु ॥ २५ । ३३ ॥
Meaning of Essence
ऊवध्यम्=दुर्गन्धयुक्तं द्रव्यम् । शमितारः=यज्ञकर्त्तार: । सुकृता=सुगन्धादियुक्तम् । शृतपाकम्= सुसंस्कृतं पाकम् । पचन्तु=अग्नौ जुहुयुः ।
Special
गोतमः । यज्ञः=अग्निहोत्रम्| निचृत्त्रिष्टुप् । धैवतः ॥