Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 32

48 Mantra
25/32
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑।यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु॥३२॥

यत्। अश्व॑स्य। क्र॒विषः॑। मक्षि॑का। आश॑। यत्। वा॒। स्वरौ॑। स्वधि॑ता॒विति॒ स्वऽधि॑तौ। रि॒प्तम्। अस्ति॑। यत्। हस्त॑योः। श॒मि॒तुः। यत्। न॒खेषु॑। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒ ॥३२ ॥

Mantra without Swara
यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति । यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता तेऽअपि देवेष्वस्तु ॥

यत्। अश्वस्य। क्रविषः। मक्षिका। आश। यत्। वा। स्वरौ। स्वधिताविति स्वऽधितौ। रिप्तम्। अस्ति। यत्। हस्तयोः। शमितुः। यत्। नखेषु। सर्वा। ता। ते। अपि। देवेषु। अस्तु॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) या (अश्वस्य) आशुगामिन: (क्रविष:) गन्तुः (मक्षिका) (आश) अश्नाति (यत्) यौ (वा) (स्वरौ) (स्वधितौ) वज्रवद्वर्त्तमानौ (रिप्तम्) प्राप्तम् (अस्ति) (यत्) (हस्तयोः) (शमितुः) यज्ञस्य कर्त्तुः (यत्) (नखेषु) (सर्वा) सर्वाणि (ता) तानि (ते) तव (अपि) (देवेषु) विद्वत्सु (अस्तु)
Essence
मनुष्यैरीदृशायां शालायामश्वा बन्धनीया, यत्रैषां रुधिरादिकं मक्षिकादयो न पिबेयुः, यथा-- यज्ञकर्त्तुर्हस्तयोर्लिप्तं हविः प्रक्षालनादिना निवारयन्ति, तथैवाश्वादीनां शरीरे लिप्तानि धूल्यादीनि नित्यं निवारयन्तु ॥ २५ । ३२ ॥
Subject
गोतमः । यज्ञः=अश्वस्य मक्षिकानिवारणादिः। निचृत्त्रिष्टुप् धैवतः ॥
Meaning of Anvay
हे मनुष्या यद्या मक्षिका क्रविषोऽश्वस्याऽऽश वा यत्स्वरौ स्वधितौ स्तः शमितुर्हस्तयोर्यद्रिप्तं यच्च नखेषु रिप्तमस्ति ता सर्वा ते सन्तु । एतत्सर्वं देवेष्वप्यस्तु ॥ ३२ ॥
सपदार्थान्वयः--हे मनुष्याः ! यद्=या मक्षिका क्रविषः गन्तुः अश्वस्य आशुगामिनः आशअश्नाति, वा यत् यौ स्वरौ स्वधितौ वज्रवद् वर्तमानौ स्तः, शमितुः यज्ञस्य कर्त्तुःहस्तयोर्यद्रिप्तं प्राप्तं, यदू या च नखेषु रिप्तं प्राप्तम् अस्ति, ता तानि सर्वा सर्वाणिते तव सन्तु । एतत्सर्वं देवेषु विद्वत्सु अप्यस्तु॥ २५ । ३२ ॥
Special
गोतमः । यज्ञः=अश्वस्य मक्षिकानिवारणादिः। निचृत्त्रिष्टुप् धैवतः ॥