Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 31

48 Mantra
25/31
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या रश॒ना रज्जु॑रस्य।यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये] तृण॒ꣳ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु॥३१॥

यत्। वा॒जिनः॑। दाम॑। स॒न्दान॒मिति॑ स॒म्ऽदान॑म्। अर्व॑तः। या। शी॒र्ष॒ण्या᳖। र॒श॒ना। रज्जुः॑। अ॒स्य॒। यत्। वा॒। घ॒। अ॒स्य॒। प्रभृ॑त॒मिति॒ प्रऽभृ॑तम्। आ॒स्ये᳖। तृण॑म्। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒ ॥३१ ॥

Mantra without Swara
यद्वाजिनो दाम सन्दानमर्वतो या शीर्षण्या रशना रज्जुरस्य । यद्वा घास्य प्रभृतमास्ये तृणँ सर्वा ता तेऽअपि देवेष्वस्तु ॥

यत्। वाजिनः। दाम। सन्दानमिति सम्ऽदानम्। अर्वतः। या। शीर्षण्या। रशना। रज्जुः। अस्य। यत्। वा। घ। अस्य। प्रभृतमिति प्रऽभृतम्। आस्ये। तृणम्। सर्वा। ता। ते। अपि। देवेषु। अस्तु॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) (वाजिनः) प्रशस्तवेगवतः (दाम) उदरबन्धनम् (सन्दानम्) पादादिबन्धनादीनि (अर्वतः) बलिष्ठस्याश्वस्य (या) (शीर्षण्या) शिरसि भवा (रशना) व्याप्नुवती (रज्जु:) (अस्य) (यत्) (वा) (घ) एव (अस्य) (प्रभृतम्) प्रकर्षेण धृतम् (आस्ये) मुखे (तृणम्) घासविशेषम् (सर्वा) सर्वाणि (ता) तानि (ते) तव (अपि) (देवेषु) विद्वत्सु (अस्तु) ॥३१ ॥
Essence
येऽश्वान् सुशिक्ष्य सर्वावयवबन्धनानि सुन्दराणि, भक्ष्यं भोज्यं पेयं च श्रेष्ठमौषधमुत्तमं च कुर्वन्ति; ते विजयादीनि कार्याणि साधुं शक्नुवन्ति ॥ २५ । ३१ ॥
Subject
पुनः के कैः किं कुर्युरित्याह ॥
Meaning of Anvay
हे विद्वन् वाजिनोऽस्यार्वतो यद्दाम सन्दानं या शीर्षण्या रशना रज्जुर्यद्वाऽस्यास्येतृणं प्रभृतं ता सर्वा ते सन्तु। एतत्सर्वं घ देवेष्वप्यस्तु ॥ ३१ ॥
सपदार्थान्वयः--हे विद्वन् ! वाजिनः प्रशस्तवेगवतः अस्यार्वतः बलिष्ठस्याश्वस्य यद्दाम उदरबन्धनं, सन्दानं पादादिबन्धनादीनि, या शीर्षण्या शिरसि भवा रशना व्याप्नुवती रज्जुः, यद्वाऽस्यास्ये मुखे तृणं घासविशेषं प्रभृतं प्रकर्षेण धृतं,ता तानि सर्वा सर्वाणिते तव सन्तु । एतत्सर्वं घ एव देवेषु विद्वत्सु अप्यस्तु ॥ २५ । ३१ ॥
Meaning of Essence
तृणम्=भक्ष्यं भोज्यं पेयं श्रेष्ठम्, औषधमुत्तमं च ।
Special
गोतमः । यज्ञः=अश्वसुशिक्षणादिः । त्रिष्टुप् । धैवतः ॥