Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 30

48 Mantra
25/30
Devata- विद्वांसो देवता Rishi- गोतम ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उप॒ प्रागा॑त् सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ऽउप॑ वी॒तपृ॑ष्ठः। अन्वे॑नं॒ विप्रा॒ऽऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म्॥३०॥

उप॑। प्र। अ॒गा॒त्। सु॒मदि॑ति॑ सु॒ऽमत्। मे॒। अ॒धा॒यि॒। मन्म॑। दे॒वाना॑म्। आशाः॑। उप॑। वी॒तपृ॑ष्ठ॒ इति॑ वी॒तऽपृ॑ष्ठः। अनु॑। ए॒न॒म्। विप्राः॑। ऋष॑यः। म॒द॒न्ति॒। दे॒वाना॑म्। पु॒ष्टे। च॒कृ॒म॒। सु॒बन्धु॒मिति॑ सु॒ऽबन्धु॑म् ॥३० ॥

Mantra without Swara
उप प्रागात्सुमन्मे धायि मन्म देवानामा शाऽउप वीतपृष्ठः । अन्वेनँविप्राऽऋषयो मदन्ति देवानाम्पुष्टे चकृमा सुबन्धुम् ॥

उप। प्र। अगात्। सुमदिति सुऽमत्। मे। अधायि। मन्म। देवानाम्। आशाः। उप। वीतपृष्ठ इति वीतऽपृष्ठः। अनु। एनम्। विप्राः। ऋषयः। मदन्ति। देवानाम्। पुष्टे। चकृम। सुबन्धुमिति सुऽबन्धुम्॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उप) सामीप्ये (प्र) (अगात्) प्राप्नुयात् (सुमत्) स्वयम् (मे) मम (अधायि) ध्रियते (मन्म) विज्ञानम् (देवानाम्) विदुषाम् (आशाः) दिश: (उप) (वीतपृष्ठः) वीतं=व्याप्तं पृष्ठं यस्य सः (अनु) (एनम्) (विप्राः) मेधाविनः (ऋषयः) मन्त्रार्थविदः (मदन्ति) कामयन्ते (देवानाम्) विदुषाम् (पुष्टे) पुष्टे जने (चकृम) कुर्याम अत्र संहितायामिति दीर्घः । (सुबन्धुम्) शोभना बन्धवो=भ्रातरो यस्य तम् ॥ ३० ॥
Essence
ये विदुषां सकाशाद् विज्ञानं प्राप्य, ऋषयो भवन्ति ते सर्वान् विज्ञानदानेन पोषयन्ति।येऽन्योऽन्यस्योन्नतिं विधाय सिद्धकामा भवन्ति; ते जगद्धितैषिणो जायन्ते ॥ २५ । ३० ॥
Subject
पुनः के केषां सकाशात् किं गृह्णीयुरित्याह ॥
Meaning of Anvay
येन सुमत्स्वयं, देवानाम् वीतपृष्ठो यज्ञोऽधायि येनैतेषां मे च मन्माशाश्चोपप्रागाद्यमेनमनुदेवानां पुष्टे ऋषयो विप्रा उपमदन्ति तं सुबन्धुं वयं चकृम ॥३०॥
सपदार्थान्वयः--येन सुमत्=स्वयं,देवानां विदुषां वीतपृष्ठः=यज्ञः वीतं=व्याप्तं पृष्ठं यस्य सः, अधायि ध्रियते; येनैतेषां मे मम च मन्म विज्ञानम्, आशाः दिशः चोपप्रागात् समीपं प्राप्नुयात्; यमेनमनु देवानां विदुषां पुष्टे पुष्टे जने ऋषयः मन्त्रार्थविदः विप्राः मेधाविनः उपमदन्ति समीपं कामयन्ते, तं सुबन्धुं शोभना बन्धवो=भ्रातरो यस्य तं वयं चकृम कुर्याम ॥ २५ । ३० ॥
Special
गोतमः । विद्वांसः=ऋषयः। त्रिष्टुप् ।धैवतः ॥