Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 3

48 Mantra
25/3
Devata- इन्द्रादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- भुरिक् कृतिः Swara- निषादः
Mantra with Swara
म॒शका॒न् केशै॒रिन्द्र॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पति॑ꣳशकुनिसा॒देन॑ कू॒र्म्माञ्छ॒फैरा॒क्रम॑ण स्थू॒राभ्या॑मृ॒क्षला॑भिः क॒पिञ्ज॑लाञ्ज॒वं जङ्घा॑भ्या॒मध्वा॑नं बा॒हुभ्यां॒ जाम्बी॑ले॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्यां॑ पू॒षणं॑ दो॒र्भ्याम॒श्विना॒वꣳ सा॑भ्या रु॒द्रꣳ रोरा॑भ्याम्॥३॥

म॒शका॑न्। केशैः॑। इन्द्र॑म्। स्वप॒सेति॑ सु॒ऽअप॑सा। वहे॑न। बृह॒स्पति॑म्। श॒कु॒नि॒सा॒देनेति॑ शकुनिऽसा॒देन॑। कू॒र्मान्। श॒फैः। आ॒क्रम॑णमित्या॒ऽक्रम॑णम्। स्थू॒राभ्या॑म्। ऋ॒क्षला॑भिः। क॒पिञ्ज॑लान्। ज॒वम्। जङ्घा॑भ्याम्। अध्वा॑नम्। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। जाम्बी॑लेन। अ॒ग्निम्। अ॒ति॒रुग्भ्या॒मित्य॑ति॒रुग्ऽभ्या॑म्। पूषण॑म्। दो॒र्भ्यामिति॑ दोः॒ऽभ्याम्। अ॒श्विनौ॑। अꣳसा॑भ्याम्। रु॒द्रम्। रोरा॑भ्याम् ॥३ ॥

Mantra without Swara
मशकान्केशैरिन्द्रँ स्वपसा वहेन बृहस्पतिँ शकुनिसादेन कूर्माञ्छपैराक्रमनँ स्थूराभ्यामृक्षलाभिः कपिञ्जलान्जवञ्जङ्घाभ्यामध्वानम्बाहुभ्याञ्जाम्बीलेनारण्यमग्निमतिरुग्भ्याम्पूषणन्दोर्भ्यामश्विनावँसाभ्याँ रुद्रँ रोराभ्याम्॥

मशकान्। केशैः। इन्द्रम्। स्वपसेति सुऽअपसा। वहेन। बृहस्पतिम्। शकुनिसादेनेति शकुनिऽसादेन। कूर्मान्। शफैः। आक्रमणमित्याऽक्रमणम्। स्थूराभ्याम्। ऋक्षलाभिः। कपिञ्जलान्। जवम्। जङ्घाभ्याम्। अध्वानम्। बाहुभ्यामिति बाहुऽभ्याम्। जान्बीलेन। अग्निम्। अतिरुग्भ्यामित्यतिरुग्ऽभ्याम्। पूषणम्। दोर्भ्यामिति दोःऽभ्याम्। अश्विनौ। अꣳसाभ्याम्। रुद्रम्। रोराभ्याम्॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मशकान्) (केशै:) शिरस्थैर्बालैः (इन्द्रम्) ऐश्वर्यम् (स्वपसा) सुष्ठुकर्मणा (वहेन) प्रापणेन (बृहस्पतिम्) बृहत्या वाचः स्वामिनं विद्वांसम् (शकुनिसादेन) येन शकुनीन्सादयति तेन (कूर्मान्) कच्छपान् (शफैः:) खुरै: (आक्रमणम्) (स्थूराभ्याम्) स्थूलाभ्याम् (ऋक्षलाभिः) गत्यादानैः (कपिञ्जलान्) पक्षिविशेषान् (जवम्) वेगम् (जङ् घाभ्याम्) (अध्वानम्) मार्गम् (बाहुभ्याम्) भुजाभ्याम् (जाम्बीलेन) फलविशेषेण (अरण्यम्) वनम् (अग्निम्) पावकम् (अतिरुग्भ्याम्) रुचीच्छाभ्याम् (पूषणम्) पुष्टिम् (दोर्भ्याम्) भुजदण्डाभ्याम् (अश्विनौ) प्रजाराजानौ (अंसाभ्याम्) भुजमूलाभ्याम् (रुद्रम्) रोदयितारम् (रोराभ्याम्) कथनश्रवणाभ्याम् ॥३॥
Essence
मनुष्यैर्बहुभिरुपायैरुत्तमा गुणा: प्रापणीया, विघ्नाश्च निवारणीयाः ॥ २५ । ३ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे मनुष्या यूयं केशैरिन्द्रं शकुनिसादेन कूर्मान् मशकान् स्वपसा वहेन बृहस्पतिं स्थूराभ्यामृक्षलाभिः कपिञ्जलाञ् जङ्घाभ्यामध्वानं जवमंसाभ्यां बाहुभ्याम् शफैराक्रमणं जाम्बीलेनारण्यमग्निमतिरुग्भ्यां पूषणं दोर्म्यामश्विनौ प्राप्नुत रोराभ्यां रुद्रं च ॥ ३ ॥
सपदार्थान्वयः--हे मनुष्याः ! यूयं केशैः शिरस्थैर्बालैः इन्द्रम् ऐश्वर्यं, शकुनिसादेन येन शकुनीन् सादयति तेन कूर्मान् कच्छपान् मशकान्, स्वपसा सुष्ठुकर्मणावहेन प्रापणेन बृहस्पतिं बृहत्या वाचः स्वामिनं विद्वांसं, स्थूराभ्यां स्थूलाभ्याम् ऋक्षलाभिः गत्यादानैः कपिञ्जलान्, पक्षिविशेषान्,जङ्घाभ्यामध्वानं मार्गंजवं वेगम्,अंसाभ्यां भुजमूलाभ्यां बाहुभ्यां भुजाभ्यां शफैः खुरैः आक्रमणं, जाम्बीलेन फलविशेषेण अरण्यं वनम् अग्निं पावकम्, अतिरुग्भ्यां रुचीच्छाभ्यां पूषणं पुष्टिं, दोर्भ्यां भुजदण्डाभ्याम् अश्विनौ प्रजाराजानौ प्राप्नुत;रोराभ्यां कथनश्रवणाभ्यां रुद्रं रोदयितारंच॥ २५ । ३ ॥
Special
प्रजापतिः । इन्द्रादयः=ऐश्वर्यादयः। भुरिक्कृतिः । निषादः ॥