Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 29

48 Mantra
25/29
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यू॒प॒व्र॒स्काऽउ॒त ये यू॑पवा॒हाश्च॒षालं॒ येऽअ॑श्वयू॒पाय॒ तक्ष॑ति। ये चार्व॑ते॒ पच॑नꣳ स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्त्तिर्नऽइन्वतु॥२९॥

यू॒प॒व्र॒स्का ति॑ यूपऽव्र॒स्काः। उ॒त। ये। यू॒प॒वा॒हा इति॑ यूपऽवा॒हाः। च॒षाल॑म्। ये। अ॒श्व॒यू॒पायेति॑ अश्वऽयू॒पाय॑। तक्ष॑ति। ये। च॒। अर्व॑ते। पच॑नम्। स॒म्भर॒न्तीति॑ स॒म्ऽभर॑न्ति। उ॒तोऽइत्यु॒तो। तेषा॑म्। अ॒भिगू॑र्त्ति॒रित्य॒भिऽगू॑र्त्तिः। नः॒। इ॒न्व॒तु॒ ॥२९ ॥

Mantra without Swara
यूपव्रस्काऽउत ये यूपवाहाश्चषालँयेऽअश्वयूपाय तक्षति । ये चार्वते पचनँ सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥

यूपव्रस्का ति यूपऽव्रस्काः। उत। ये। यूपवाहा इति यूपऽवाहाः। चषालम्। ये। अश्वयूपायेति अश्वऽयूपाय। तक्षति। ये। च। अर्वते। पचनम्। सम्भरन्तीति सम्ऽभरन्ति। उतोऽइत्युतो। तेषाम्। अभिगूर्त्तिरित्यभिऽगूर्त्तिः। नः। इन्वतु॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यूपव्रस्काः) यूपस्य=स्तम्भस्य छेदका: (उत) अपि (ये) (यूपवाहाः) ये यूपं वहन्ति ते (चषालम्) यूपावयवम् (ये) (अश्वयूपाय) अश्वस्य बन्धनार्थाय स्तम्भाय (तक्षति) तक्षन्ति=तनूकुर्वन्ति । अत्र वचनव्यत्ययेनैकवचनम् (ये) (च) (अर्वते) अश्वाय (पचनम्) पाकसाधनम् (सम्भरन्ति) सम्यग्धरन्ति पुष्णन्ति वा (उतो) अपि (तेषाम्) (अभिगूर्त्तिः) अभ्युद्यम: (नः) अस्मान् (इन्वतु)व्याप्नोतु=प्राप्नोतु ॥ २९ ॥
Essence
ये शिल्पिनोऽश्वबन्धनादीनि काष्ठविशेषजानि वस्तूनि निर्मिमते, ये च वैद्या अश्वादीनामौषधानि सम्भारांश्च संगृह्णन्ति, ते सदोद्यमिनः सन्तोऽस्मान् प्राप्नुवन्तु ॥ २५ । २९॥
Subject
पुनस्ते किं कुर्युरित्याह ॥
Meaning of Anvay
ये यूपव्रस्का उतापि ये यूपवाहा अश्वयूपाय चषालं तक्षति ये चार्वते पचनं सम्भरन्ति उतो ये प्रयतन्ते तेषामभिगूर्तिर्न इन्वतु ॥ २९ ॥
सपदार्थान्वयः--ये यूपव्रस्काः यूपस्य=स्तम्भस्य छेदकाः, उत=अपि ये यूपवाहाः ये यूपं वहन्ति ते, अश्वयूपाय अश्वस्य बन्धनार्थाय स्तम्भाय चषालं यूपावयवं तक्षति तक्षन्ति=तनूकुर्वन्ति, ये चार्वते अश्वाय पचनं पाकसाधनं सम्भरन्ति सम्यग्धरन्ति पुष्णन्ति वा, उतो अपि ये प्रयतन्ते, तेषामभिगूर्तिः अभ्युद्यमः नः अस्मान् इन्वतु व्याप्नोतु=प्राप्नोतु ॥ २५ । २९ ॥
Meaning of Essence
चषालम्=काष्ठविशेषजं वस्तु ॥
Special
गोतमः । यज्ञः=शिल्पिभिर्यूपादिनिर्माणम्| भुरिक्त्रिष्टुप् | धैवतः ॥