Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 28

48 Mantra
25/28
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
होता॑ध्व॒र्युराव॑याऽअग्निमि॒न्धो ग्रा॑वग्रा॒भऽउ॒त शस्ता॒ सुवि॑प्रः। तेन॑ य॒ज्ञेन॒ स्वरङ्कृतेन॒ स्विष्टेन व॒क्षणा॒ऽआ पृ॑णध्वम्॥२८॥

होता॑ अ॒ध्व॒र्युः। आव॑या॒ इत्याऽव॑याः। अ॒ग्नि॒मि॒न्ध इत्या॑ग्निम्ऽइ॒न्धः। ग्रा॒व॒ग्रा॒भ इति॑ ग्रावऽग्रा॒भः। उ॒त। शस्ता॑। सुवि॑प्र॒ इति॑ सुऽवि॑प्रः। तेन॑। य॒ज्ञेन॑। स्व॑रङ्कृते॒नेति॒ सुऽअ॑रङ्कृतेन। स्वि᳖ष्टे॒नेति॒ सुऽइ॑ष्टेन। व॒क्षणाः॑। आ। पृ॒ण॒ध्व॒म् ॥२८ ॥

Mantra without Swara
होताध्वर्युरावयाऽअग्निमिन्धो ग्रावग्राभऽउत शँस्ता सुविप्रः । तेन यज्ञेन स्वरङ्तेन स्विष्टेन वक्षणाऽआ पृणध्वम् ॥

होता अध्वर्युः। आवया इत्याऽवयाः। अग्निमिन्ध इत्याग्निम्ऽइन्धः। ग्रावग्राभ इति ग्रावऽग्राभः। उत। शस्ता। सुविप्र इति सुऽविप्रः। तेन। यज्ञेन। स्वरङ्कृतेनेति सुऽअरङ्कृतेन। स्विष्टेनेति सुऽइष्टेन। वक्षणाः। आ। पृणध्वम्॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(होता) आदाता (अध्वर्यु:) अहिंसायज्ञमिच्छु: (आवयाः) येनावयजन्ति सः (अग्निमिन्धः) अग्निप्रदीपक: (ग्रावग्राभः) यो ग्रावाणं=मेघं गृह्णाति सः (उत) (शंस्ता) प्रशंसक: (सुविप्रः) शोभना विप्रा=मेधाविनो यस्मिन् सः (तेन) (यज्ञेन) संगतेन (स्वरङ्कृतेन) सुष्ठ्वलंकृतेन । कपिलकादित्वाद्रेफ: । (स्विष्टेन) शोभनेनेष्टेन (वक्षणाः) नदीः । वक्षणा इति नदीना० १ । १३ । (आ) (पृणध्वम्) समन्तात्सुखयत ॥ २८ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः । ये मनुष्याः सुगन्ध्यादिसुसंस्कृतानां हविषां वह्नौ प्रक्षेपेण वायुवर्षाजलादीनि शोधयित्वा, नद्यादिजलानि शोधयन्ति, ते सदा सुखयन्ति ॥ २५ । २८ ॥
Subject
पुनर्मनुष्याः किं कुर्युरित्याह ॥
Meaning of Anvay
हे मनुष्या यथा होताऽऽवया अग्निमिन्धो ग्रावग्राभः शंस्तोत सुविप्रोऽध्वर्युर्येन स्वरंकृतेन स्विष्टेन यज्ञेन वक्षणा अलङ्करोति तथा तेन यूयमप्यापृणध्वम् ॥ २८ ॥
सपदार्थान्वयः--हे मनुष्याः ! यथा--होताआदाता, आवयाः येनावयजन्ति सः, अग्निमिन्धः अग्निप्रदीपकः, ग्रावग्राभः यो ग्रावाणं=मेघं गृह्णाति सः, शंस्ता प्रशंसकः, उत सुविप्रः शोभना विप्रा=मेधाविनो यस्मिन् सः, अध्वर्यु: अहिंसायज्ञमिच्छु; येन स्वरङ्कृतेन सुष्ठ्वलंकृतेन स्विष्टेन शोभनेनेष्टेन यज्ञेन सङ्गतेन वक्षणाः नदी: अलङ्करोति; तथा तेन यूयमप्यापृणध्वं समन्तात् सुखयत ॥ २५ । २८ ॥
Meaning of Essence
यज्ञेन=सुगन्ध्यादिसुसंस्कृतानां हविषा वह्नौ प्रक्षेपेण ।
Special
गोतमः । यज्ञः=स्पष्टम् । निचृत्त्रिष्टुप् । धैवतः ॥