Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 27

48 Mantra
25/27
Devata- यज्ञो देवता Rishi- प्रजापतिर्ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यद्ध॑वि॒ष्यमृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति।अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒गऽए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः॥२७॥

यत्। ह॒वि॒ष्य᳖म्। ऋ॒तु॒श इत्यृ॑तु॒ऽशः। दे॒व॒यान॒मिति॑ देव॒ऽयान॑म्। त्रिः। मानु॑षाः। परि॑। अश्व॑म्। नय॑न्ति। अत्र॑। पू॒ष्णः। प्र॒थ॒मः। भा॒गः। ए॒ति॒। य॒ज्ञम्। दे॒वेभ्यः॑। प्र॒ति॒वे॒दय॒न्निति॑ प्रतिऽवे॒दय॑न्। अ॒जः ॥२७ ॥

Mantra without Swara
यद्धविष्यमृतुशो देवयानन्त्रिर्मानुषाः पर्यश्वन्नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञन्देवेभ्यः प्रतिवेदयन्नजः ॥

यत्। हविष्यम्। ऋतुश इत्यृतुऽशः। देवयानमिति देवऽयानम्। त्रिः। मानुषाः। परि। अश्वम्। नयन्ति। अत्र। पूष्णः। प्रथमः। भागः। एति। यज्ञम्। देवेभ्यः। प्रतिवेदयन्निति प्रतिऽवेदयन्। अजः॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) ये (हविष्यम्) हविर्भ्यो हितम् (ऋतुशः) ऋत्वर्हम् (देवयानम्) देवानां प्रापणसाधनम् (त्रिः) त्रिवारम् (मानुषा:) (परि) सर्वत: (अश्वम्) आशुगामिनम् (नयन्ति) प्राप्नुवन्ति (अत्र) अस्मिन् । अत्र ऋचितुनुघ० इति दीर्घत्वम् । (पूष्णः) पुष्टे: (प्रथमः) आदिम: (भागः) सेवनीयः (एति) प्राप्नोति (यज्ञम्) (देवेभ्यः) विद्वद्भ्यः (प्रतिवेदयन्) विज्ञापयन् (अजः) पशुविशेषः ॥ २७ ॥
Essence
ये प्रत्यृत्वाहारविहारान् कुर्वन्ति;अश्वाजादिपशुभ्य: संगतानि कार्याणि कुर्वन्ति; तेऽत्यन्तं सुखं लभन्ते ॥ २५ । २७ ॥
Subject
पुनः केन के किं कुर्वन्तीत्याह ॥
Meaning of Anvay
यद् ये मानुषा ऋतुशो हविष्यं देवयानमश्वं त्रिः परिनयन्ति योऽत्र पूष्णः प्रथमो भागो देवेभ्यो यज्ञं प्रतिवेदयन्नज एति स सदा रक्षणीयः ॥ २७ ॥
सपदार्थान्वयः-- यद्=ये मानुषा ऋतुशः ऋत्वर्हं हविष्यं हविर्भ्यो हितं देवयानं देवानां प्रापणसाधनम् अश्वम् आशुगामिनं त्रिः त्रिवारं परिनयन्ति सर्वतः प्राप्नुवन्ति, योऽत्र अस्मिन् पूष्णः पुष्टेः प्रथमः आदिमः भागः सेवनीयः, देवेभ्यः विद्वद्भ्यः यज्ञं प्रतिवेदयन् विज्ञापयन् अजः पशुविशेष:, एति प्राप्नोति; स सदा रक्षणीयः॥ २५ । २७ ॥
Special
प्रजापतिः । यज्ञः=अश्वादीनामुपयोगः।त्रिष्टुप् । धैवतः ॥